सदस्यसम्भाषणम्:Sreeshashankar/प्रसारणेषु क्रान्ति

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
माध्यम तन्त्रज्नानं अस्मिन् समाजे प्रमुखं अस्ति। जनाः मध्यमेन संवादम् कुर्वन्ति। रेडियो-दिनपत्रिकं-दूरदर्शनम् च मध्यम उदाहरणानि सन्ति। त्व्ट्टिट्टर-फेस्बुक्-वाट्साप्-इन्स्टाग्राम् च अधुना प्रसिद्ध्ं माध्यमं प्रकरणम् भवति

प्रसारणेषु क्रान्ति:

      गतेषु केषुचित् वर्षेषु अस्माकं देशे प्रसारणक्षेत्रे महति क्रान्ति द्र्श्यते। वयं दूरदर्शने यत्किमपि पश्यामः स्वतन्त्रता दिवसस्य अथवा गणतन्त्रदिवसस्य साक्षात्प्रसारणमवलोकयामः सहैव अनेकान् कार्यक्रमान् पश्यामः तत् उपग्रहस्वाया एव शक्यं भवति। इत्थं समूहसन्चारमाध्यमैः प्रसारणक्षेत्रे महत्परिवर्तनमानीतं द्र्श्यते।

(1) उपग्रहः (सेटेलाइट) प्रसारणक्षेत्रे क्रान्तेः उपग्रह्सेवायाः महद् योगदानं वर्तते। द्र्श्यश्रवयोः अन्तरं ट्रान्स्मीटरमाद्यमेन एकत्रीक्रुत्य दूरवाणीसन्चारे, दूरभाषे, दूरवाणीसन्देशप्रषेणे च उपग्रहसेवा महत्वपूर्णें भागं भजते। वयं दूरस्थनगरेषु भारते एव नापितु विदेशेषु अपि दूरभाषेण वार्तालापं स्वयं कस्यापि साहाय्यं विना कर्तुं प्रभवामः तत्र उपग्रहसेवा एव कारणम्। भारसर्वकारेण सम्पूर्णदेशे प्रसारणसेवायाः संवर्धनाय बहूपयोगिनां उपग्रहसेवानां व्यवस्थापनं क्रियते।

        सर्वप्रथमं Inset-1B उपग्रहः1983 तमे वर्षे पुनश्च Inset-1C उपग्रहः 1988 खिष्टाब्दे व्यवस्थापितः। उप्ग्रहसेवाया वयं वातावरणज्नानं, मार्गग्नानं अन्यविषयकं ग्नानम् प्राप्तुं शक्नुमः। द्रुश्यश्रव्यसन्चारसाधनां सन्चालनं मुख्यतः अनया सेवाया एव सम्भवति।

(2) सङणकयन्त्रम् (कम्प्युटर्) सम्पर्कयान्त्रिक्याः अपरं महत्वपूर्णं घटकं सङणकयन्त्रं वर्तते। पूर्वं गणनायाः क्रुते अविष्क्रुतस्य एतस्य उपयोगः साम्प्रतं बहुविधकार्याणां क्रुते क्रियते। मनुष्यस्य यन्त्रमस्तिष्करूपेण ग्रुहे ग्रुहे अस्योपयोगः क्रियते। सूचनानां सङ्राहाय, प्रुथ्थकरणाय, प्रेषणाय, ग्रहणाय सङणकयन्त्र महदुपकरणमस्ति। अध्य इ मेल-इन्टरनेट-वेबसाइट इत्यादिनां प्रयोगः सङणयन्त्रमाध्यमेन क्रियते।

     छात्राः शिक्षणकार्ये अस्य सम्यगुपयोगं कर्तुं शक्नुवन्ति। न्यूनसमयेन विस्त्रुतग्नानं अनेन माध्यमेन प्राप्यते। शिक्षणे आवश्यकविषयेण सङणकं स्थानम् प्राप्नोति। टेलिसन्चारक्षेत्रे अस्यापि महत्वपूर्णं योगदानं वर्तते। अनेन सहैव विग्नापनमाध्यमेन लघुचलचित्रमाध्यमेन प्रासारणेषु  महति क्रान्ति प्रसूता द्रुश्यते।

भविष्यस्य प्रसारणपद्धति: सन्चारमाध्यमेषु बहव्यः नूतनपद्धतयः अपि विकसिताः दृश्यन्ते। एताः पद्धतयः अमेरिका-जापानप्रभ्रृतिषु देशेषु प्रारब्धाः विकसिताश्च सन्ति। शनैः शनैः भारतेपि एतासु काश्चन पद्धतयः समागताः सन्ति, अन्याश्च केषुचित् वर्षेषु आगमिश्यन्ति। तेषां विवरणमधं प्रस्तूयते - (1) दूरभाषे वार्तालापे ध्वनिना सह श्रोतुः वक्तुश्च चित्रमपि वयं द्र्ष्टुं शक्नुमः। एषा पद्धतिः भारते अपि सम्प्रवलोक्यते। (2) आपणेषु वस्तुनां मूल्यनिर्धारणाय क्रयणाय च गृहे उपविश्य सङणकं सहाय्यं करिष्यति। धनप्रेषणम्-वातावरणज्नानम्-वाहनव्यवहारज्नानम्-वायुयान् रेलयानरक्षणम्-सम्पूर्णपाठ्यपुस्तकानां प्रेषणं शीघ्रतया भविष्यति। इत्थं वयं पश्यामः यत् समूहसन्चारमाध्यमानि अन्येषु क्षेत्रेष्वपि विकासाया सततं सहायकानि भवन्ति। एतेषां समूहसन्चाराणां माध्यमैः शिक्षाक्षेत्रे-आर्थिकक्षेत्रे-सामाजिकक्षेत्रे च अतीव परिवर्तनं भवति। वयं स्वस्थाने अपिविश्यैव सम्पूणजगतः सूचना प्राप्नुमः। एतैः माध्यमैः अस्माकं विचाराः सम्पूर्णविश्वस्मिन् व्यक्ताः भवितुं शक्नुवन्ति।