सदस्यसम्भाषणम्:Vikhashini PM/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • attending-अनुचर्
  • attracted-कर्षित
  • aug-प्रविशिनष्टि
  • authorise-अधिकारित्वं ददाति
  • autological-स्व शिथिल
  • avarice-धनपिशाची
  • avoided-परिवृक्त

प्रबन्द[सम्पादयतु]

Beautiful mother earth at sunset

पृथ्वी

पृथ्वी कश्चित् ग्रहः अस्ति । सूर्यमण्डले पृथ्वी तृतीये क्रमाङ्के स्थिता अस्ति । पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमः ग्रहः अस्ति । जीवनाय अनुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति । पृथ्वी अधिकोष्णा नास्ति, अधिकशीतलापि नास्ति । पृथ्व्यां वायुः, जलम् च अस्ति । जीवनस्य कृते वायुजलयोः आवश्यकता भवति । अनेन कारणेन पृथ्वी सौरमण्डलस्य अद्भुतग्रहः विद्यते । पृथिव्याः प्रकृतिः विशिष्टा वर्तते । तस्य विषये इदानीम् अपि स्पष्टं नास्ति । पृथिव्याम् अनेकाः पदार्थाः सन्ति । पृथिव्याः उपरिभागः स्थलमण्डलेन आवृतः अस्ति । ज्वालामुखिना पृथिव्याः बहवः पदार्थाः बहिरागच्छन्ति । वैज्ञानिकाः भौगोलिके संशोधने कार्यरताः भवन्ति । तेन वैज्ञानिकानां समीपं पृथिव्याः विषये विशिष्टं ज्ञानं भवति । भूगर्भस्य संरचना कथम् अस्ति ? तस्मिन् के पदार्थाः प्राप्यन्ते ? इति विषयम् आधृत्य वैज्ञानिकाः निरन्तरम् संशोधनं कुर्वन्तः सन्ति । पृथिव्याः केन्द्रे गन्तुं अशक्यम् अस्ति, किन्तु केवलम् अनुमानेन वैज्ञानिकाः ज्ञानं प्राप्नुवन्ति । ग्रहेषु पृथिव्याम् एव जीवनं सम्भवम् अस्ति । यतः जीवनाय भूमेः, जलस्य, वायोः च आवश्यकता वर्तते । तानि सर्वाणि तत्त्वानि पृथिव्याम् उपलब्धानि सन्ति । पृथिव्याः पर्यावरणस्य त्रयः महत्वपूर्णाः घटकाः परस्परं मिलन्ति, परस्परं प्रभावयन्ति च । पृथिव्याः पर्यावरणे त्रीणि मण्डलानि सन्ति । स्थलमण्डलं, जलमण्डलं, वायुमण्डलं च । पृथिव्यां जैवमण्डलम् अपि वर्तते । पृथिव्याः सर्वैः जीवधारिभिः जैवमण्डलस्य रचना अभवत् । पृथिव्याः सर्वे जीवितघटकाः जैवमण्डले विद्यन्ते । तेषु – पादपाः, जन्तवः, प्राणिनः, सूक्ष्मजीवाः च सन्ति । अधिकाः जीवाः स्थलमण्डले एव प्राप्यन्ते । किन्तु तेषु बहवः जीवाः वायुमण्डले जलमण्डले अपि प्राप्यन्ते । केचित् जीवाः मण्डलद्व्ये अपि स्वतन्त्रतया विचरणं कर्तुं शक्नुवन्ति । एतानि तत्त्वानि भूम्या, जलेन, मृत्तिकया इत्यादिभिः सह पारस्परिकक्रियां कुर्वन्ति । तापमानेन, वर्षया, आर्द्रतया, सूर्यप्रकाशेन एतानि तत्त्वानि प्रभावितानि भवन्ति । जैविकघटकानां भूमिवायुजलैः सह परस्परम् आदानं, प्रदानं च जीवानां विकासाय च साहाय्याय कल्पते ।


-विखषिनि पि येम् -अदित्य भरद्वाज्