सन्तरणक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सन्तरणक्रीडा
सन्तरणस्य दृश्यम्
नियामकगणः फेडरेशन् इन्टरनेशनेल डी नटशन् (फिना)
उपनाम(नि) तरति
समवायः यः कोऽपि
वैशिष्ट्यसमूहः
वर्गीकरणम् जलक्रीडा
उपस्थितिः
ओलिम्पिक् क्रैस्तवीय १८९६ तः-

सन्तरणक्रीडा(Swimming) जलक्रीडासु अन्यतमा ।

सन्तरणक्रीडा व्यक्तिगतरूपेण सामूहिकरूपेण च क्रीडन्ति । एषा क्रीडा मनोरञ्जनस्य साधनमस्ति । शारीरकेण मानसिकरुपेण च अतीव आनन्दं वितरति । शरीरं भारहीनं मनश्च शान्तं च करोति । अनेके रोगाः अपि अनया शाम्यन्ति ।

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

पुराकाले साम्प्रतमिव यातायातयोः साधनानि नासन् । व्यापारास्तथा गमनागमनानि नदीमार्गेण समुद्रमार्गेण वा विधीयन्ते स्म । ग्रामीणजनाः सरसीषु तडागेषु वा, तथा नद्यादीनां तटेषु वसतिमत्सु नगरेषु तेषां नागरिकाः सन्तरणेन आत्मनो मनोरञ्जनं शारीरक-स्वास्थ्यलाभं च प्राप्नुवन्ति स्म । ग्रीक्-रोम्-अमेरिका-इंग्लैण्ड् प्रभृतिषु देशेषु अपि सन्तरणस्य प्रमाणानि प्राप्यन्ते । तानि सङ्ग्रहालयेषु द्रष्टुं शक्यन्ते । भारतस्य स्वातन्त्र्यानन्तरं सन्तरणक्रीडायाम् अवधानं दत्तम् । अस्याः क्रीडायाः विकासाय विश्वविद्यालयेषु पाठयक्रमाङ्गत्वेन सन्तरणक्रीडायाः प्रशिक्षणम् आरब्धम् । सन्तरणस्पर्धानां समायोजनानि विद्यालये, महाविद्यालये, विश्वविद्यालये, राष्ट्रियस्तरे च विधीयन्ते । साम्प्रतं सन्तरणक्रीडायाः अन्तराष्ट्रियेस्तरे महत्त्वं स्थानं मन्यते ।

वैज्ञानिकानां, इतिहासकाराणां च मतानुसारेण सन्तरणक्रीडा शिलायुगादारभ्य वर्तते । ७,००० वर्षात् पूर्वतन चित्रकलायां सन्तरणस्य विषयं वर्तते, एतेन सन्तरणम् आसीदिति ज्ञायते । क्रिस्तोः २,००० वर्षात् पूर्वं सन्तरणक्रीडायाः लिखितं प्रमाणं वर्तते । गिल्गमेश्,इलियड्,ओडिस्सि,बैबल्,बिवुल्फ्,कुरान् इत्यादि ग्रर्न्थेषु सन्तरणस्य उल्लेखाः वर्तन्ते । १७७८ तमे वर्षे निकोलस् वेमन्(Nikolaus Wynmann) जर्मनी देशस्य भाषाप्रवाचकः सन्तरणस्य विषये पुस्तकं लिखितवान् । एतत् सन्तरणस्य प्रथम पुस्तकं वर्तते । तस्य पुस्तकस्य नाम, द स्विम्मर्अथवाए डैलोग् ओन् द आर्ट् आफ् स्विम्मिङ्ग् । १८०० तमस्य वर्षस्य समीपे अमेरिकादेशे सन्तरणस्य स्पर्धा आरब्धा । आरम्भे बाक् स्ट्रोक् प्रकारः स्पर्धायाम् आरब्धा । १८७३ तमे वर्षे जान् अर्थर् ट्रजन्(John Arthur Trudgen) नूतनतया सण्तरणशैलीं प्रदर्शितवान् । तस्य नाम ट्रजन् इत्येव नाम आसीत् । एषा शैली सैड् स्ट्रोक् इत्यनेन आरब्धा । १८९६ तमे वर्षे अथेन्स्-नगरे ओलम्पिक् क्रीडोत्सवे प्रथमवारं सन्तरणक्रीडायाः स्पर्धा जाता । १९०२ तमे वर्षे रिच्मण्ड् सिविल्-वर्यः फ्रण्ट् क्राल्(Front Crawl) प्रकारः पाश्चिमात्य राष्ट्रेभ्यः प्रदर्शितवान् । १९०८ तमे वर्षे विश्वसन्तरणसमितिः(Fédération Internationale de Natation (FINA)) निर्मितः । १९३० तमे वर्षे बटर्-फ्लै इति सन्तरणप्रकारः आरब्धः । १९५२ तमे वर्षे बटर्-फ्लै सन्तरणप्रकारः विद्यमानेषु प्रकारेषु नान्तर्भवति, एषः भिन्नप्रकारः इति अङ्गीकृतः ।

सन्तरणप्रकाराः[सम्पादयतु]

स्वतन्त्रं सन्तरणम् (Free Style)[सम्पादयतु]

अस्मिन् प्रकारे सन्तरणशीले जने किमपि कीदृशमपि बन्धनं न भवति । स कामपि निश्चितां पद्धतिं न श्रित्वा स्वस्य ह्स्तौ पादौ च चालयितुं स्वतन्त्रो भवति । हस्तयोः पदयोः स्वतन्त्ररुपेण् युगपद् वा प्रयोगं कर्तुं शक्नोति ।

वक्षः साहाय्येन सन्तरणम् (Breast Stroke)[सम्पादयतु]

अस्यां पद्धतौ शरीरं प्रतिक्षणं सल्लिस्य समतलं स्थाप्यते । हस्तौ युगपद् वक्षसोऽग्रे वर्धयतस्तथा पुनर्हस्तौ पृष्ठे आनीयेते । पादौ बहिर्भागे तथा पृष्ठभागे वलितावेव स्तः । शिरस एको भागो जलस्तरादूर्ध्वं तिष्ठति वलनावस्थायां धावनसमाप्तौ चोभाभ्यां हस्ताभ्यां स्पर्शः क्रियते ।

उच्छलनपूर्वकं सन्तरणम् (Butter Fly)[सम्पादयतु]

एतस्मिन् विधौ स्कन्धौ पानियतलस्य समतलौ भवतः । पादावुच्चावच दिशोर्मज्जतः । भुजे अग्रे वर्द्धेते । ह्स्तयोः पादयोश्चास्य विधेरतिरिक्तमन्येन केनापि प्रकारेण चालनं त्रुटिः (फाऊल्) मन्यते ।

कटिसाहाय्येन सन्तरणम् (Back Stroke)[सम्पादयतु]

अत्र प्रतियोगिनः समग्रं धावनं स्वस्याः कटया बलेन तीर्त्वा पूर्यते । अस्मिन् द्वावपि ह्स्तौ पादौ च क्रमेणोर्ध्वाधो भागयोर्वर्तुलसीम्नि सञ्चाल्य तीर्यते । क्रीडा -क्षेत्रम् -सन्तरण् -प्रतियोगिताया आयोजनं कस्मिन्नपि तडागे भवति । साम्प्रतं कृत्रिमाः सरस्यो निर्मीयन्ते यासामायामा भिन्न-भिन्न भवन्ति । विश्वक्रीडोत्सवेषु ५० मीटरदीर्घा सरसी प्रयुज्यते यां ‘पूल्’ (Pool) इति कथयन्ति । अस्या आयाममष्टभागेषु विभजन्ति । बेक-स्ट्रोक्-पद्धतिकं तरणं परित्यज्यान्येषु प्रकारेषु क्रीडारम्भो निमज्जन -(डाइव् Dive)पद्धत्या भवति । धारण-वस्त्रम् -पुरुषाः सन्तरणकाले कटिवस्त्रं (जांघिय) धारयन्ति महिलाश्च कटि-पृष्ठाग्राच्छादकं (वन-पीस) वस्त्रं धारयन्ति । अधिकारिणः-अन्ताराष्ट्रियावश्यकतानुसारमेकः सञ्चालकः, एक आरम्भकस्तथा द्वौ निर्णायकौ भवन्ति । निमज्जनप्रक्रियाः- सन्तरणकर्तारः प्रतियोगितासु १ उपस्थाय २- शिरोदेशेन, ३- विपरीतमुखेन, ४- धावनपूर्वकं ५- चक्रभ्रमणेन ६- कूर्दित्वा वा निज्जनप्रक्रियामाचरन्ति ।

इमाः प्रक्रियाः -फारवर्ड डाइव Ferward Dive बक डाइव Back Dive रिवर्स डाइव Reuers Dive, समरसार्ट् -Summer Sart इति नामभिः परिचीयन्ते । सन्तरण- सीम -पुरुषेभ्यः १०० मीटरत आरभ्य १५०० मीटर -पर्यन्तं स्वतन्त्रसन्तरण- प्रतियोगिता विश्वक्रीडोत्सवेष्वायोज्यन्ते स्त्रीभ्यश्च ५०० मीटरपर्यन्तम् ब्रेस्टस्ट्रोक-बटर -फ्लाई- बेक -स्ट्रोक-प्रतियोगितानामायामाः १०० मीटरतो २०० मीटारपर्यन्ता भवन्ति । एतासु प्रतियोगितासु कीर्तिमानानि स्थापयदभ्यो भारते ‘अर्जुनपुरस्कारः’ तथा ‘पद्मभूषण’ सम्माना अपि प्रदीयन्ते ।

साधनानि[सम्पादयतु]

संतरणक्रीडायाः श्लोकः[सम्पादयतु]

भूमौ सञ्चरणेन धावन-कला-प्रावीण्यलब्ध्या तथा
यद्वत् क्रीडन-नैपुणीं विशदयन् ख्यातोऽभवन् मानवः ।
तद्वत सन्तरणेन वारिणि परां प्रौढिं श्रितः शाश्वतीं
क्रीडां सन्तरणेऽपि भूरि-विभवां व्यापारयन् राजते ॥
तरणप्रतिगोगिताविधौ, मनुजं प्रापयतीह सौश्रियम् ।
जलकेलरतीव कोमला, तरलैः सन्तरणैः परिष्कृता ॥

चित्रवीथिका[सम्पादयतु]

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

"https://sa.wikipedia.org/w/index.php?title=सन्तरणक्रीडा&oldid=262805" इत्यस्माद् प्रतिप्राप्तम्