समाजशास्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

समाजशास्त्रं मानवसमाजस्य अध्ययनम् । एतत् सामाजिकविज्ञानस्य काचित् शाखा । एतस्मिन् मानवीयसामाजिकीं संरचनां, सामाजिकीं गतिविधिं च परिष्कृतां कर्तुं प्रयासाः भवन्ति । तासां विकासाय अनुभवजन्यविवेचनस्य[१][२] और महत्त्वपूर्ण सिद्धांत|विवेचनात्मक विश्लेषण[३] विभिन्नानां पद्धतीनाम् उपयोगः भवति । बहुधा यत्र सामाजिककल्याणस्य ध्येयः भवति, तत्र एतासां पद्धतीनाम् अनुसरणं भवति । समाजशास्त्रस्य विषयवस्तोः विस्तारः व्यक्तिगतसम्पर्कस्य सूक्ष्मसमाजशास्त्रात् स्थूलसमाजशास्त्रपर्यन्तम् अस्ति ।

पद्धतिक्षेत्राधारेण, विषयवस्तोः विस्ताराधारेण च समाजशास्त्रम् अतीव विस्तृतः विषयः वर्तते । परम्परागततया सामाजिकस्तरीकरणं, सामाजिकसम्बम्धः, सामाजिकसम्पर्कः, धार्मिकसमाजशास्त्रं, सांस्कृतिकसमाजशास्त्रं, विचलनसमाजशास्त्रम् इत्यादयः विषयाः अत्र केन्द्रीभूताः सन्ति । समाजशास्त्रे गुणात्मकशोधः, मात्रात्मकशोधपद्धतयः च अन्तर्भवतः । यतो हि अधिकांशतः मनुष्यः यत्किमपि करोति, तत् सामाजिकसंरचनायाः, सामाजिकगतिविधेः श्रेणौ एव अर्न्तभवति, अतः समाजशास्त्रस्य माध्यमेन शनैः शनैः अन्येषां विषयाणाम् अपि प्रसिद्धिः अभवत् । यथा चिकित्सासमाजशास्त्रं, सैन्यसमाजशास्त्रं, दण्डप्रणाली, माध्यमाध्ययनं, वैज्ञानिकसमाजशास्त्रं च । एतेषु विषयेषु सामाजिकगतिविधीनां भूमिका विशेषतया दृश्यते । सामाजिकवैज्ञानिकपद्धतीनां सीमायाः स्वरूपं प्रतिदिनं विस्तारं प्रापदस्ति । विंश्यां शताब्द्यां भाषागतपरिवर्तनत्वाद्, सांस्कृतिकपरिवर्तनत्वाच्च सामाजिकाध्ययस्य व्याख्यात्मकसिद्धान्ते, व्याख्यात्मकदृष्टिकोणे च शीघ्रतया परिवर्तनम् अभवत् । तस्माद्विपरीतम् अद्यत्वे नवीनायाः गाणितीकाधारितानां कठोरपद्धतीनाम् अपि प्रचलनं दरीदृश्यते । यथा सामाजिक-नेटवर्क-विश्लेषणम् ।

आधारः[सम्पादयतु]

इतिहासः[सम्पादयतु]

ऑगुस्ट कॉम्ट

समाजशास्त्रीयतर्कः इत्येतस्य शब्दस्य उत्पत्तितिथि उचितसमयात् पूर्वम् अभवत् इति मन्यते । आर्थिक-राजनैतिक-सांस्कृतिकप्रणालीभिः सह समाजशास्त्रस्य उत्पत्तिः, पश्चिमीज्ञानं, दर्शनं च संयुक्ततया ज्ञानभण्डारस्य आद्य-समाजशास्त्रीयं स्रोतः अस्ति । प्लेटो इत्यस्य कालादेव सामाजिकविश्लेषणस्य प्रक्रियायाः आरम्भः दृश्यते । मान्यता अस्ति यद्, प्रप्रथमः समाजशास्त्री चतुर्दश्यां शताब्द्याम् अभवत् । सः उत्तर-अफ्रीका-देशीयः अरब-विद्वान् आसीत् । तस्य नाम 'इब्न खलदून' इति । तेन मुक़द्दीमाइत्याख्यस्य पुस्तकस्य रजना कृता । तस्मिन् पुस्तके सामाजिक्याः एकतायाः, सामाजिकसङ्घर्षस्य च विस्तृता चर्चा कृता । तया चर्चया एव सामाजिक-वैज्ञानिकसिद्धान्तानां प्रसिद्धिः अभवदित्यपि मान्यता [४][५][६][७][८]

sociologie इत्येतस्य शब्दस्य प्रप्रथमवारम् उपयोगः फ्रांसदेशीयः निबन्धकारः इम्मानुएल यूसुफ सियेज (1748-1836) इत्येषः १७८० तमे वर्षे एकस्याम् अप्रकाशितहस्तप्रतौ कृतवान् । [९] ततः तस्य शब्दस्य पुनरुपयोगम् ऑगुस्ट कॉम्ट (1798-1857) इत्येषः १८३८ तमे वर्षे अकरोत् । [१०] एतस्य शब्दस्य प्रयोगात् पूर्वं कॉम्ट इत्येषः "सामाजिकी भौतिकी" इत्यस्य शब्दस्य उपयोगम् अकरोत् । परन्तु पश्चात् सः शब्दः अन्यैः समाजशास्त्रिभिः स्वीकृतः । कॉम्ट-द्वारा लिखितस्य "सामाजिकी भौतिकी" इत्येतस्य शब्दस्य विशेषोपयोगं बेल्जियम-देशीयः साङ्ख्यिकीविद् एडोल्फ क्योंटेल्ट इत्येषः अकरोत् । सामाजिकक्षेत्राणां वैज्ञानिकबुद्धेः माध्यमेन इतिहास-मनोविज्ञान-अर्थशास्त्राणां संयोजनं कर्तुं प्रायसरतः सः "सामाजिकी भौतिकी" इत्यस्य शब्दस्य प्रयोगं बहुवारं कृतवान् । तस्य फ्रांसदेशीयस्य लेखकस्य लेखप्रकाशनस्य समनन्तरमेव कॉम्ट् इत्येषः अलिखद्यत्, सामाजिकप्रत्यक्षवादस्य माध्यमेन सामाजिकावगुणानाम् उन्मूलनं शक्यते इति । द कोर्स इन पोसिटिव फिलोसफी (1830-1842), ए जनरल व्यू ऑफ़ पॉसिटिविस्म (1844) इत्येतयोः ग्रन्थयोः उल्लिखितः एषः कश्चन दर्शनशास्त्रीयः दृष्टिकोणः वर्तते । कॉम्ट इत्यस्य विश्वासः आसीद्यत्, मानवीयबौद्धिकक्रमे धार्मिकविचाराणाम्, आध्यात्मिकचरणानां च पश्चात् अन्तिमस्तत्वेन 'प्रत्यक्षवादीस्तरः' तेन शब्देन प्रतिपादितः भविष्यतीति । यद्यपि 'कॉम्ट' इत्यस्य प्रसिद्धिः "समाजशास्त्रस्य जनकत्वेन" भवति, तथापि विरलाः जानन्ति यद्, एतस्य विषयस्य औपचारिकरूपेण स्थापना केनचित् अन्येन संरचनात्मककार्यवादिना विचारकेण एमिल दुर्खीम(1858-1917) इत्येन अभवदिति । एतस्य विषयस्य आधारेण प्रथमस्य यूरोपीय-अकादमिक-विभागस्य स्थापना अभवत् । एवं कालान्तरे प्रत्यक्षवादस्य विकासः अभवत् । तदारभ्य सामाजिकज्ञानवादः, कार्यपद्धतयः, प्रश्नव्यापः इत्यादीनां महत्त्वपूर्णविस्तारः जातः ।

महत्त्वपूर्णा व्यक्तिः[सम्पादयतु]

एमिल दुर्खीम

एकोनविंश्यां शताब्द्यां समाजशास्त्रस्य विकासः वेगवन्तः आसीत् । तस्य विकासस्य पृष्ठे अनेकानि आधुनिकाह्वानि कारणाभूतानि आसन् । यथा – औद्योगीकरणं, नगरीकरणं, वैज्ञानिकीकरणम् इत्यादि । यूरोप-महाद्वीपे एषः विषयः प्रभुत्वम् अस्थापयत् । समनन्तरं ब्रिटिन-देशे नृविज्ञानस्य प्रचलनं बलतरम् अभवत् । विश्याः शताब्द्याः समाप्तावधौ अनेकैः प्रमुखसमाजशास्त्रिभिः एंग्लो-अमेरिकन-बाहुल्ये स्थित्वा स्वकार्यं कृतम् । एलेक्सिस डी टोकविले, विल्फ्रेदो परेटो, कार्ल मार्क्स, फ्रेडरिक एंगेल्स, लुडविग गम्प्लोविज़, फर्डिनेंड टोनिस, फ्लोरियन जैनिकी, थौस्टीन वेब्लेन, हरबर्ट स्पेन्सर, जॉर्ज सिमेल, जार्ज हर्बर्ट मीड, चार्ल्स कूले, वर्नर सोम्बार्ट, मैक्स वेबर, एंटोनियो ग्राम्स्की, गार्गी ल्यूकास, वाल्टर बेंजामिन, थियोडोर डब्ल्यू एडोर्नो, मैक्स हौर्खीमर, रॉबर्ट के. मेरटन, टेल्कोट् पार्सन्स इत्यादयः शास्त्रीयसामाजिकसिद्धान्तकारत्वेन प्रसिद्धिङ्गताः । विभिन्नेषु शैक्षणिकेषु विषयेषु कार्यान्वितानां सिद्धान्तानां गणनया सह उक्तानां सर्वेषां सिद्धान्तकाराणां कृतयः अर्थशास्त्र-न्यायशास्त्र-मनोविज्ञान-दर्शनानि प्रभावितवत्यः । पियरे बौर्डी, राइट मिल्स, उलरिश बैक, हावर्ड एस बेकर, जर्गेन हैबरमास, पिटीरिम सोरोकिन, सेमौर मार्टिन लिप्सेट, मोइसे ओस्ट्रोगोर्स्की, लुई अलतूसर, निकोस पौलान्त्ज़स, राल्फ मिलिबैंड, सिमोन दे बउवा, पीटर एल बेर्गेर, हरबर्ट मरक्यूस, मिशेल फूको, अल्फ्रेड शुट्ज़, मार्सेल मॉस, जॉर्ज रित्ज़र, गाए देबोर्ड, जीन बौड्रीलार्ड, बार्नी ग्लेसर, ऐन्सेम स्ट्रॉस, डोरोथी स्मिथ, इरविंग गोफमैन, गिलबर्टो फ्रेयर, जूलिया क्रिस्तेवा, राल्फ द्रेंदोर्फ, हरबर्ट गन्स, माइकल ब्रावो, निकलस लूमन, लूसी इरिगरे, अर्नेस्ट गेल्नर, अर्नेस्ट गेलनेर, रिचर्ड होग्गार्ट, स्टुअर्ट हॉल, रेमंड विलियम्स, फ्रेडरिक जेम्सन, एंटोनियो नेगरी, अर्नेस्ट बर्गेस, गेरहर्ड लेंस्की, रॉबर्ट बेल्लाह, पॉल गिलरॉय, जॉन रेक्स, जिग्मंट बाऊमन, जुडिथ बटलर, टेरी ईगलट्न, स्टीव फुलर, ब्रूनो लतोर, बैरी वेलमैन, जॉन थॉम्पसन, एडवर्ड सईद, हरबर्ट ब्लूमर, बेल हुक्स, मैनुअल कैसटेल्स, एंथनी गिडेंस इत्येते सर्वेऽपि विंश्याः शताब्द्याः उत्तरार्धस्य विशेषसैद्धान्तिकदृष्टिकोणेन, अनुस्थापनेन च सह सम्बद्धाः सन्ति । एतेषु दुर्खीम, मार्क्स, वेबर इत्येतेषां गणना तु समाजशास्त्रस्य प्रमुखसंस्थापकत्रयत्वेन भवति । यतो हि क्रमशः संरचनात्मककार्यात्मकतायाः, द्वन्द्वसिद्धान्तस्य, अप्रत्यक्षवादोपदेशस्य च आधारेण तेषां कार्याणां मूल्याङ्कनम् कर्तुं शक्नुमः । जॉर्ज सिमेंल, टेल्कोट पार्सन्स इत्यतयोः संयुक्ततया "चतुर्थप्रमुखव्यक्तित्वेन" शिक्षापाठ्यक्रमेषु समावेशः अस्ति ।

अकादमि-विषयत्वेन समाजशास्त्रस्य संस्थानीकरणम्[सम्पादयतु]

हसम-प्रदेशे फर्डिनेंड टोंनी इत्यस्य आवक्षमूर्तिः

१८९० तमे वर्षे अमेरिका-देशस्य केकंसास-विश्वविद्यालये, लॉरेंस-विश्वविद्यालये, कैन्सस-विश्वविद्यालये च अभ्यासक्रमविषयत्वेन समाजशास्त्रस्य अध्ययनम् आरब्धम् । तस्य पाठ्यक्रमस्य शीर्षकं समाजशास्त्रस्य तत्वम् इति आसीत् । फ्रैंक ब्लैकमर इत्याख्येन प्राध्यापकेन प्रप्रथमवारं एतस्य विषयस्य पाठनारम्भः कृतः । सः पाठ्यक्रमः अद्यापि अमेरिका-देशे पाठ्यते । एवं सः पाठ्यक्रमः अमेरिका-देशस्य पुरातनतमः समाजशास्त्रपाठ्यक्रमः । अमेरिका-देशस्य प्रथमविकसिते स्वतन्त्रविश्वविद्यालये अर्थात् कन्सास-विश्वविद्यालये १८९१ तमे वर्षे इतिहाससमाजशास्त्रविभागयोः स्थापना अभवत् । [११][१२] शिकागो-विश्वविद्यालये समाजशास्त्रविभागस्य स्थापना १८३२ मध्ये ऐल्बिनो डब्ल्यू. स्माल-द्वारा अभवत् । तेन १८९५ तमे वर्षे अमेरिकन जर्नल ऑफ सोशिऑलजी-संस्थायाः स्थापना कृता । [१३] प्रप्रथम-यूरोपीय-समाजशास्त्र-विभागस्य स्थापना १८९५ तमे वर्षे बोर्डोक्स-विश्वविद्यालये अभवत् । तस्य विभागस्य आरम्भः L'Année Sociologique(1896) इत्येतस्याः संस्थायाः संस्थापकेन अर्थात् एमिल दुर्खीम इत्येन कृतः । १९०४ तमे वर्षे युके-मध्ये स्थापितः प्रप्रथमः समाजशास्त्रविभागः 'लंदन स्कूल ऑफ इकॉनॉमिक्स एंड पोलिटिकल साइन्स' इत्यस्यां संस्थायाम् आरभत । [१४] १९१९ तमे वर्षे जर्मनी-देशे समाजशास्त्र-विभागस्य स्थापना लुडविग-मैक्समिलिंस-म्यूनिख-विश्वविद्यालये मैक्स वेबर इत्यस्य प्रयासेन अभवत् । १९२० तमे वर्षे पोलैंड-देशे फ्लोरियन नैनिकी इत्येन समाजशास्त्रविभागः आरब्धः । रेने वॉर्म्स इत्यनेन समाजशास्त्राय अन्ताराष्ट्रियसहयोगस्य आरम्भः १८९३ तमे वर्षे अभवत् । परन्तु तस्य प्रयासस्य प्रभावः १९४९ तमे वर्षे समाप्तः । अन्ताराष्ट्रियसामाजिकसंघ(ISA)द्वारा सः प्रयासः प्रभावहीनः अभवत् । [१५] ९०५ तमे वर्षे विश्वस्य विशालतमस्य समाजशास्त्रिणां स्वैच्छिकसङ्घस्य, 'अमेरिकन-सोसियोलोजिकल-असोसिएशन-संस्थायाः च स्थापना अभवत् । १९०९ तमे वर्षे फर्डिनेंड टोंनीस, जॉर्ज सिमेल, मैक्स वेबर इत्यादिभिः 'German Society for Sociology' इत्यस्याः संस्थायाः स्थापना अभवत् ।

प्रत्यक्षवादः, अप्रत्यक्षवादश्च[सम्पादयतु]

आरम्भिकसिद्धान्तकाराणां समाजशास्त्रं प्रति क्रमबद्धः दृष्टिकोणः आसीत् । तत्र तेन सह प्राकृतिकविज्ञानस्यापि व्यापकः व्यवहारः आसीत् । सामाजिकयाञ्चायै, निष्कर्षाय च निर्विवादाधारस्य आवश्यकतायां सत्याम्, अनुभवशून्येभ्यः क्षेत्रेभ्यः समाजशास्त्रस्य पृथक्करणावश्यकतायां सत्याञ्च अनुभववादविधेः, वैज्ञानिकविधेः च माहात्म्यम् अवर्धत । सामाजिकवस्तुनिष्ठवादत्वेन प्रसिद्धः एषः दृष्टिकोणः केवलं 'प्रामाणिकज्ञानमेव वैज्ञानिकज्ञानम् अस्ति' इति प्रतिपादयति । एवम् एतादृशं ज्ञानं कठोरवैज्ञानिकपरीक्षणैः, मात्रात्मकपद्धतिभिः, सिद्धान्तानां सकारात्मकपुष्ट्या च लब्धुं शक्यते । एमिल दुर्खीम इत्येषः सैद्धान्तिकतया अनुभवजन्यस्य अनुसन्धानस्य[१६] महान् समर्थकः आसीत् । ये संरचनात्मकनियमानां परिसिद्ध्यै सामाजिकेषु तथ्येषु परस्परं सम्बन्धम् अन्वेषयन्ति स्म, 'एनोमी' इत्येतत् अपाकर्तुं, सामाजिकोत्कर्षाय च सामाजिकनिष्कर्षषु तेषां रुचिः अनुप्राणिता भवति। अद्य दुर्खीम इत्यस्य विद्वतापूर्णस्य प्रत्यक्षवादस्य विवरणम्, अतिशयोक्तिः, अतिसरलीकरणं च प्रति असुरक्षितं जायते। कॉम्ट इत्येव एकमात्रं तादृशः प्रमुखः सामाजिकः विचारकः आसीत्, यस्य याच्ञा आसीत् यत्, सामाजिकविभागः अपि कुलीनविज्ञानस्य समानं वैज्ञानिकविश्लेषणस्य अन्तर्गततया भवितुम् अर्हति। प्रतुत दुर्खीम इत्येषः अधिकं विस्तारं दत्त्वा मौलिकप्रकृतेः ज्ञानशास्त्रीयसीमाः स्वीकृतवान्।[१७][१८]

कार्ल मार्क्स

प्रत्यक्षवादस्य विरुद्धं प्रतिक्रियाः तदा आरब्धा, यदा जर्मन-दार्शनिकः जॉर्ज फ्रेडरिक विल्हेम हेगेल इत्येषः उभयोः अनुभववादयोः विरुद्धं टिप्पणीः अकरोत्। तेन सः अविवेचनात्मकवादस्य, नियतिवादस्य च रूपेण निरस्तः अभवत्, तथा च तस्य गणना अव्यावहारिकरूपेण अभवत् ।[१९] कार्ल मार्क्स इत्यस्य पद्धतिः न केवलं प्रान्तीयभाषावादात् स्वीकृता आसीत्, अपि तु भ्रमाणां निर्मूलनार्थं "तथ्यानाम्" अनुभवजन्यम् अधिग्रहणम् अन्वेष्टुं विवेचनात्मकं विश्लेषणं कृत्वा प्रत्यक्षवादस्य बहिष्कारः अपि विद्यते। [२०] तस्य मतम् आसीत् यत्, अनुमानानां केवलं लिखित्वा उपस्थानम् अकृत्वा तेषां समीक्षा अपि भवेत्। तथापि मार्क्स इत्येषः ऐतिहासिकभौतिकवादस्य आर्थिकनियतिवादस्योपरि आधारितं साइंस ऑफ़ सोसाइटी इत्यस्याः पत्रिकायाः प्रकाशनस्य प्रयासम् अकरोत्। [२०]हेनरिक रिकेर्ट, विल्हेम दिल्थे इत्यादीनाम् अन्यदार्शनिकानां तर्कः आसीत् यत्, प्राकृतिकविश्वे, मानवसमाजस्य कृते च तेषां विशिष्टानां पक्षानां (अर्थः, सङ्केतः इत्यादीनां) कारणाणि सामाजिकसंसारात्, सामाजिकवास्तविकतायाः च भिन्नानि सन्ति, यानि मानवसंस्कृतेः अन्यत्र एव नयन्ति।

Max Weber 1894.jpg

विंश्याः शताब्द्याः अन्ते जर्मन-समाजशास्त्रिणां प्रथमः वंशः औपचारिकतया प्रक्रियात्मकं अप्रत्यक्षवादं प्रास्थापयत्। तेषां प्रस्तावनानुंसारं मानवसंस्कृतेः मानकाः, मूल्यानि (व्यक्तिगतानि, सांस्कृतिकानि), प्रतीकः, सामाजिकप्रक्रियाः च व्यक्तेः दृष्टिकोणस्योपरि केन्द्रिताः भवेयुः इति निष्कर्षः भवति स्म। मैक्स वेबर इत्येषः तर्कं दत्त्वान् यत्, समाजशास्त्रस्य व्याख्यायाः स्वीकारः 'विज्ञान'स्य विषयत्वेन कर्तुं शक्नुमः, यतो हि तत् जटिलसामाजिक-घटनानाम् आदर्शवर्गस्य अथवा काल्पनिकसरलीकरणस्य मध्ये कारण-सम्बन्धानां परिचयं कारयितुं सक्षमम् अस्ति। [२१] भवतु, प्राकृतिकवैज्ञानिकैः अनेष्टेभ्यः सम्बन्धेभ्यः विपरीतम् एकम् अप्रत्यक्षवादिरूपेण, कस्याश्चित् व्यक्तेः सम्बन्धानां च अन्वेषणं भवति, तदेव "अनैतिहासिकम्, अपरिवर्तनीयम्, अथवा सामान्यं भवति।".[२२]


सन्दर्भाः[सम्पादयतु]

  1. गिडेंस, एंथोनी, डनेर, मिशेल, एप्पल बाम, रिचर्ड. 2007इंट्रोडक्शन टू सोशिऑलोजी. छठा संस्करण. न्यू यॉर्क: डबल्यू. डबल्यू. नोर्टन और कंपनी
  2. Ashley D, Orenstein DM (2005). Sociological theory: Classical statements (6th ed.). Boston, MA, USA: Pearson Education. pp. 3-5, 32-36. 
  3. Ashley D, Orenstein DM (2005). Sociological theory: Classical statements (6th ed.). Boston, MA, USA: Pearson Education. pp. 3-5, 38-40. 
  4. एच.मोलाना (2001) "अरब विश्व में सूचना", कोओपरेशन साउथ जर्नल 1 .
  5. डॉ॰एस. डबल्यू . अख्तर (1997). "इस्लामिक ज्ञान की संकल्पना", अल तौहिद : इस्लामी विचार एवं संस्कृति की एक त्रैमासिक पत्रिका 12 (3).
  6. एम्बर हक़ (2004)m, "इस्लामी नज़रिए से मनोविज्ञान : समकालीन मुस्लिम मनोवैज्ञानिक के लिए आरंभिक मुस्लिम विद्वानों का योगदान और चुनौती", धर्म और स्वास्थ्य के समाचार पत्र 43 (4):357-377[375].
  7. Enan, Muhammed Abdullah (2007). Ibn Khaldun: His Life and Works. The Other Press. p. v. ISBN 9839541536. 
  8. Alatas, S. H. (2006). "The Autonomous, the Universal and the Future of Sociology". Current Sociology 54: 7–23 [15]. doi:10.1177/0011392106058831. 
  9. Des Manuscrits de Sieyès 1773-1799, खंड I और II, क्रिस्टीन फुर द्वारा प्रकाशित, जैक्स गिलहाउमो, Jacques Vallier et Françoise Weil, Paris, Champion>, 1999 और 2007.क्रिस्टीन फुरे और जैक्स गिलहाउमो, Sieyès et le non-dit de la sociologie: du mot à la chose, in Revue d’histoire des sciences humaines, Numéro 15, novembre 2006: Naissances de la science sociale भी देखें.फ्रेंच- भाषा के विकिपीडिया में भी लेख 'सोशियोलोजी' देखें.
  10. समाजशास्त्रस्य एक शब्दकोष, अनुच्छेद: कॉम्ट, अगस्टे
  11. "University of Kansas Sociology Department Webpage". Ku.edu. Retrieved 2009-04-20. 
  12. "University of Kansas News Story". News.ku.edu. 2005-06-15. Retrieved 2009-04-20. 
  13. "American Journal of Sociology Website". Journals.uchicago.edu. 1970-01-01. Retrieved 2009-04-20. 
  14. "British Journal of Sociology Website". Lse.ac.uk. 2009-04-02. Retrieved 2009-04-20. 
  15. http://www.isa-sociology.org/ International Sociological Association वेबसाइट
  16. Ashley D, Orenstein DM (2005). Sociological theory: Classical statements (6th ed.). Boston, MA, USA: Pearson Education. p. 94. 
  17. Ashley D, Orenstein DM (2005). Sociological theory: Classical statements (6th ed.). Boston, MA, USA: Pearson Education. pp. 94-98, 100-104. 
  18. फिश, जोनाथन एस. 2005. 'दुर्खीमियन परंपरा का बचाव करते हुए. धर्म, जज्बात और 'नैतिकता एल्डरशट : एशगेट प्रकाशन.
  19. Ashley D, Orenstein DM (2005). Sociological theory: Classical statements (6th ed.). Boston, MA, USA: Pearson Education. p. 169. 
  20. २०.० २०.१ Ashley D, Orenstein DM (2005). Sociological theory: Classical statements (6th ed.). Boston, MA, USA: Pearson Education. pp. 202-203. 
  21. Ashley D, Orenstein DM (2005). Sociological theory: Classical statements (6th ed.). Boston, MA, USA: Pearson Education. pp. 239-240. 
  22. Ashley D, Orenstein DM (2005). Sociological theory: Classical statements (6th ed.). Boston, MA, USA: Pearson Education. p. 241. 
"https://sa.wikipedia.org/w/index.php?title=समाजशास्त्रम्&oldid=405179" इत्यस्माद् पुनः प्राप्तिः