समुद्रीय-प्रदूषणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


यदा च समुद्रे प्रदूषणम् अधिकं भवति तदा एतादृशीं स्थितिं प्राप्नोति

प्रदूषणमिदं सामान्यजनैः सह सद्यः सम्बन्धितं नास्ति, अतः जनानामवधानम् अस्योपरि न भवति । भारतस्य तिसृषु दिक्षु समुद्रः अस्ति । फलतः समुद्रे जातानां प्रदूषणानां प्रभावः देशेऽस्मिन् भवति एव । औद्योगीकरणेनापि समुद्रः प्रदूषितः भवति । विशेषतः औद्योगिक-प्रतिष्ठानस्य स्थापना सागरतटे नदी तटे वा भवति । सागरतटे स्थितस्य औद्योगिकप्रतिष्ठानस्य कृते याता –यात –सुविधा भवति । एभिः प्रतिष्ठानैः निस्सृताः प्रदूषकाः नूनं सागरं प्रदूषयति । जलमार्गेण एव तैलानामायातः क्रियते । कदाचित् तैलवाहकसमुद्रीययानस्य दुर्घटनाऽपि भवति । येन जले तैलस्य मिश्रणं भवति । फलतः सागरीयजलं प्रदूषितं भवति । तैले कदाचित् अग्निः अपि प्रज्वलिता भवति येन समुद्रीयाः जीवाः मृयन्ते । फलतः प्रदूषणं भवति । भारते वहूनां नगराणां स्थितिः सागरतटे अस्ति । तेषां स्थितिरेव प्रदूषणस्य कारणं भवति । नगरीय –सर्वेषां प्रदूषकाणां निस्तारणं सागरे एव भवति । विविधानां विद्युतसंयन्त्राणां स्थापना अपि समुद्रतटे क्रियते । एतदपि सागरईयप्रदूषणस्य कारणं भवति । प्राकृतिकरिपेणापि कदाचित् सागरीयप्रदूषणं भवति । यथा- कदाचित् चक्रवातः आगच्छति । चक्रवाते वहूनां पशूनां जीवानां च मृत्युः भवति । ते मृतजीवाः जले प्रवहन्तः सागरे एवागच्छन्ति । अन्येऽपि प्रदूषकाः जले प्रवहन्तः सागरं प्रति गच्छन्ति । अनेन सागरीय-जीवानां मृत्युः अपि भवति । एभिः कारणैः अपि सागरीय प्रदूषणं भवति । सागरीयप्रदूषणेन कदाचित् वायुप्रदूषणमपि भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=समुद्रीय-प्रदूषणम्&oldid=481061" इत्यस्माद् प्रतिप्राप्तम्