सम्भाषणम्:आर्यभटः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आर्यः भट्टः उत आर्यभट्टः इति शीर्षकं भवेत् । दिनद्वयं प्रतीक्षां कृत्वा पृष्ठस्यास्य शीर्षकं परिवर्तयिष्यामि । अस्तु । ॐNehalDaveND ०८:१७, २० अप्रैल २०१५ (UTC)

आर्यभटेन रचिते आर्यभटीयग्रन्थे (गणितपादस्य प्रथमा आर्या) एवम् उल्लिखति -
'आर्यभटस्त्विह निगदति कुसुमपुरेऽभ्यर्चितं ज्ञानम् ।' इति ।
ब्रह्मगुप्तसिद्धान्तस्य ११ अध्याये ब्रह्मगुप्तः लिखति -
'स्वयमेव नाम यत्कृतमार्यभटेन स्फुटं स्वगणितस्य । सिद्धं तदस्फुटत्वं ग्रहणादीनां विसंवदति ॥४२॥
जानात्येकमपि यतो नार्यभटो गणितकालगोलानाम् । ...........
अनेन स्पष्टं यत् तस्य नाम आर्यभटः एव इति । इदम् अत्यन्तं प्रसिद्धं नाम इत्येतदपि विदितमेव । --Shubha (चर्चा) ०४:४५, २२ अप्रैल २०१५ (UTC)
कृतज्ञोऽहं @Shubha:-महोदये अहम् आर्यभट्ट-आख्यं महानुभावं परिगण्य अवदम् । उचितम् इदं शीर्षकम् । ॐNehalDaveND ०५:१३, २२ अप्रैल २०१५ (UTC)
"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:आर्यभटः&oldid=294711" इत्यस्माद् प्रतिप्राप्तम्