सामग्री पर जाएँ

सरदार पटेल स्मारकभवनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सरदार-स्मारकभवन इत्यस्मात् पुनर्निर्दिष्टम्)
सरदार पटेल स्मारकभवनम्
સરદાર પટેલ સ્મારક
मोती शाह-प्रासादः
मोती शाह-प्रासादः
स्थापना  7, 1980 (1980-03-07)
स्थानम् शाहीबाग, कर्णावती, गुजरातराज्यम्
प्रकारः स्मारकभवनम्, ऐतिहासिककेन्द्रम्
जालस्थानम् आधिकारिकजालस्थानम्

सरदार पटेल-स्मारकभवनं ( /ˈsərədɑːrə pətɛlə smɑːrəkəbhəvənəm/) (गुजराती: સરદાર પટેલ સ્મારક, आङ्ग्ल: Sardar Patel Memorial) कश्चन सङ्ग्रहालयः, प्रदर्शनकेन्द्रं च । भारतस्वतन्त्रसेनानिनः, राजनेतुः लोहपुरुषस्य स्मारकत्वेन समर्पितम् । तत् स्मारकं गुजरातराज्यस्य कर्णावती-महानगरस्य शाहिबाग-विस्तारे विद्यमानम् अस्ति । तस्य स्मारकभवनस्य नाम 'मोती शाही महेल' इति । तं प्रासादं परितः बृहत् उद्यानम् अस्ति [] । प्रासादस्य पुरः भागस्थे उद्याने लोहपुरुषस्य विशालप्रतिमा अस्ति [] । तस्य उद्यानस्य उपयोगः प्रलेखिचलच्चित्रप्रदर्शनाय (Documentary Film) अपि भवति ।

इतिहासः

[सम्पादयतु]

१६१८-१६२२ मध्ये मोगलशासकेन शाहजहाँ इत्यनेन 'मोती शाही'-प्रासादः कर्णावती-महानगरे निर्मापितः । तस्मिन् समये सः गुजरातराज्यस्य राज्यपालः आसीत् । एकोनविंशे शताब्दे सैन्यशिबिरत्वेन कर्णावती-महानगरस्य स्थापना अभवत्, तस्मिन् काले सः प्रासादः आङ्ग्लसर्वकाराधीनः अभवत् । १९८० तमस्य वर्षस्य मार्चमासस्य सप्तमे दिनाङ्के एतस्य सैन्यशिबिरत्वेन स्थापना अभवत् [][]वङ्गप्रदेशस्य महान् कविः, लेखकः, चिन्तकः रवीन्द्रनाथठाकुरः १८७८ तमे वर्षे एतस्मिन् प्रासादे निवासम् अकरोत् । तस्मिन् समये सः सप्ततिवर्षीयः आसीत् । ततः भारतस्वान्तत्र्योत्तरम् एषः प्रासादः गुजरातराज्यस्य राज्यपालस्य निवासस्थानम् अर्थात् राजभवनम् आसीत् ।

स्मारके वीक्षणीयम्

[सम्पादयतु]

सरदारस्मारकम्

[सम्पादयतु]
लोहपुरुषस्य मूर्तिः

१८७५ तमस्य वर्षस्य अक्तूबरमासस्य एकत्रिंशे दिनाङ्के गुजरातराज्यस्य नडियाद-नगरे लोहपुरुषस्य जन्म अभवत् । पञ्चसप्ततिवर्षीयस्य लोहपुरुषस्य मृत्युः १९५० तमस्य वर्षस्य दिसम्बरमासस्य पञ्चदशे दिनाङ्के अभवत् । तस्य मरणोत्तरम् एतस्य प्रासादस्य स्मारकत्वेन घोषणा अभवत् । अत्र लोहपुरुषस्य मूर्तिः अपि विद्यते । एषः भागः मेमोरियल् ग्राउण्ड इति प्रसिद्धम् अस्ति । एतस्मिन् भागे एकं सभागारं अन्ये चत्वारः प्रकोष्ठाः सन्ति । मुख्यसभागारे लोहपुरुषस्य चित्राणि सन्ति, येषु सः स्वान्त्र्यक्रान्तिकारिभिः, कुम्बेन, मित्रैः च सह स्वातन्त्र्यान्दोलनकाले समयं यापयन् दृष्टुं शक्यते । लोहपुरुषस्य १९३० तमे वर्षे महात्मना सह सम्बन्धः, युवावस्थायाः चित्राणि, शिक्षणे, अभ्यासे च उपयुक्तानि वस्तूनि, भारतीयराजवंशीयानाम् एकत्रसङ्घटने तस्य योगदानस्य चित्राणि च तत्र एकस्मिन् प्रकोष्टे सङ्ग्रहीतानि सन्ति । तस्मिन् प्रासादे प्रवेशद्वारस्य वामतः प्रकोष्टे खादि-कुन्तकं, धौतवस्त्रं, पादत्राणं च स्थापितम् अस्ति । तत्रैव तस्य वैदेशिकशैल्याः वस्त्राणि अपि स्थापितानि सन्ति ।

लोहपुरुषस्य उपयोगीनि वस्तूनि

सरदारसरोवरं, गान्धिप्रकोष्ठश्च

[सम्पादयतु]

मुख्यसभागारस्य उपरि अपि उपसभागारम् अस्ति । तस्मिन् उपसभागृहे सरदारसरोवरयोजानायाः (एषा योजना सरदारसरोवरजलबन्धेन सह संल्लग्ना अस्ति ।) प्रारूपं परिलक्षितम् अस्ति । तस्मिन् उपसभागृहे चित्राणि, पुस्तकानि, प्रकल्पसम्बद्धानि तथ्यानि च प्रदर्शितानि सन्ति । तस्मिन् प्रकोष्ठे सरदारसरोवरयोजनायाः प्रलेखनचलच्चित्रक(प्रोजेक्टर)-माध्यमेन अपि प्रदर्शनं भवति । तस्य प्रकोष्ठस्य समीपस्थे प्रकोष्ठे लोहपुरुषेण सह महात्मनः जीवनस्य, कार्याणां च प्रदर्शनम् अस्ति । तस्मिन् प्रदर्शने चित्राणां, सुवाक्यानां, मूर्तीनां, पुस्तकानां च समावेशो भवति । समग्रे स्मारके महात्मना सह तस्य घनिष्ठतायाः दर्शनं प्रत्यक्षम् अस्ति ।

ठाकुरस्मारकम्

[सम्पादयतु]

१८७८ तमे वर्षे रवीन्द्रनाथः एतस्मिन् प्रासादे न्यवसत् । अतः यस्मिन् प्रकोष्ठे सः निवसति स्म, तस्मिन् प्रकोष्ठे तस्य चित्राणि, प्रतिमा, वस्तूनि च स्थापितानि सन्ति । तत्रापि प्रलेखनचलच्चित्रमाध्यमेनापि तस्य स्मारकं चलच्चित्रं प्रदर्श्यते ।

उद्धरणम्

[सम्पादयतु]
  1. Ras Mala, 199. A Forbes' Oriental Memoir. IIL 136,138.
  2. Gazetteer of the Bombay Presidency: Ahmedabad (Public Domain Text). Government Central Press. 1879. p. 283. 
  3. Mukherjee Parikh, Runa (July 27, 2012). "‘Renovation’ ruining Shah Jahan’s palace". The Times of India (Ahmedabad). TNN. Archived from the original on June 18, 2013. आह्रियत March 8, 2013. 
  4. "HC stays renovation at Shah Jahan Monument". The Indian Express (Ahmedabad). August 17, 2012. आह्रियत March 8, 2013.