सहकारिता-आन्दोलनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

सहकारिता इति शब्देन एकोद्देश्यपूत्र्यर्थ समन्वितेन सहयोगभावनया! कृतम् ऐच्छिक संगठनम् अभीष्यते। तन्निमित्तम् आन्दोलनं च सहकारिता-आन्दोलनम्!(Co-operative Movement) इत्यभिधीयते। तत्त्वत्रयस्य प्राधान्येन अत्र समावेशः अभीष्टः।

  1. कस्यचिद् आर्थिक-उद्देश्यस्य पूर्तिः,
  2. कार्यपाराणाम् अधिकार-कार्यदृष्ट्रया च स्तरसाम्यम् एकरूपत्वं! च,
  3. सहकारित्वम् ऐच्छिक संगठनमूलक च। अतः एतस्य प्रेरणास्रोत आभ्यन्तरम्!

सहकारितान्दोलनस्य उद्भवो विकासश्च[सम्पादयतु]

‘संघे शक्तिः कलौ युगे' इति । सामाजिकेषु राजनीतिकषु विश्वसम्बद्धेषु च सर्वत्रैव अनुमोदितुं व्यवहर्तुं च शक्यते । समन्वयभावनाम् अन्तरेण, सहयोगभावाद् ऋते च संघर्षबहुले जगति न सम्भवा साध्यसिद्धि:! एतस्य आन्दोलनस्य आर्थिकक्षेत्रे सहकारितान्दोलनरूपेण उद्भवः 19-तमशताब्द्या जर्मनी-डेनमार्कदेशयोः अभूत्। शर्मण्यदेशे शुल्जन्डेलिज-नामा, डेनमार्कदेशे च रेफिसन-नामां दीन-शोषित-पतितानां श्रमिकाणां कृषकाणां च स्थितपरिवर्तनव्रतम् आस्थाय सहकारितान्दोलनं प्रारब्धवन्तौ। शुल्जः शर्मण्यदेशनगरेषु रेफिसनश्च डेनमार्क-ग्रामीण-क्षेत्रेषु सहकारिसमितीः संस्थापितवन्तौ। भारते ग्रामसहकारिसमिति-संस्थापनं रेफिसन् सिद्धान्तम्। अनुसृत्य, नगर-सहकारिसमिति-संस्थापनं च शुल्ज-सिद्धान्तमूलकम्। भारतवर्षे सहकारितान्दोलनस्य उद्भव: 1904 ईसवीयेऽभूत्। तदानीं वैदेशिकशासनत्वाद् एतस्य उद्देश्यं न तथा आर्थिकोत्थानम् आसीत्, यथा आर्थिकोन्नतिव्यपदेशेन । जनानां शोषणम् तदा सहकारिसमितीनाम् उद्देश्यम् आसीद्-अल्पकुसीदपूर्वकं कृषकेभ्य ऋणदानम्। 1906 ईसवीये सहकारि-समितीनां संख्या 843, 1911 ईसवीये च तासां संख्या 8177 आसीत् । आसां समितीनां निधिश्च कोटित्रयाधिकम् अभूत्। 1912 ईसवीये सहकारिताविधानं निर्मितम्। तदनुसारं केन्द्रीय-सहकारि-वित्तकोषस्य संस्थापनम् अभूत् । सहकारिसमितीन कृते क्रयविक्रयौ, जीवन-बीमा-कार्यम्, भवननिर्माणम्, उत्पादनव्यवस्था, उद्योगाश्च वैधरूपेण उद्घोषितानि। 1915 ईसवीये प्रान्तीयसहकारि-बैंकानां स्थापनाऽभूत् । एवं विविधकार्य-व्यवस्थापनार्थम् अर्थप्राप्तौ सहकारि-समितीन कृते सौविध्यमभूत्। 1919 ईसवीये मैकलागनसमितिविवरणम् आश्रित्य सहकारिता प्रान्तीयशासनान्तर्गतम् अभूत्। 1945 ईसवीये सहकारि-समितीनां संख्या पादोनद्विलक्षपरिमिताऽभूत्। -

स्वातन्त्र्योत्तरं विकासः[सम्पादयतु]

सहकारिवित्तकोषः

भारतस्वातन्त्र्यलाभोत्तरकाले विशिष्टा प्रगतिर्लक्ष्यते सहकारिता-आन्दोलने । भारतस्य पुनर्निर्माणम् अनुरुध्य का योजना हितावहा इति विचारे सहकारिता-आन्दोलनम् अपि प्राधान्यं विद्यते। तत्परिणामरूपेण सहकारिताभावना-प्रोत्साहनार्थ भारतशासनेन 1945 तमे ईसवीये सहकारितायोजनासमितिः संस्थापिता। भारतवर्षे एतद् आन्दोलन-स्वरूपेण याः सहकारिसमितय: संस्थाश्च कार्यपराः सन्ति, ताः सन्ति:-

  • ग्रामीणसहकारि-समन्वयसमितयः,
  • ग्रामीणसहकारितर-समन्वयसमितयः ,
  • नीरिक्षक-यूनियन्
  • नगर-समन्वयसमितयः,
  • नगरेतर- समन्वयसमितयः,
  • केन्द्रीय सरकारी वित्तकोषाः,
  • राज्यसरकारी वित्तकोषाश्च

पञ्चवर्षीययोजनासु अपि सहकारिता प्राधान्यम् अलभत । योजना-आयोगः मार्च 1950 ईसवीये भारतीयसंविधानानुसारम् आयोजितोऽभूत्। भारतस्य सर्वाङ्गीणसमुन्नतिर्येन पञ्चवर्षीय-योजना (Five-year Plans) प्रारब्धा। समासतो चतुर्थपञ्चवर्षीययोजनायाः । वैशिष्ट्यम् अत्र प्रस्तोतुं प्राभवत्- -

  1. प्रथम-पञ्चवर्षीया योजना-कालः-1950 ईसवीयतः 31 मार्च 1956 ई. यावदासीत्। खाद्यसमस्या-समाधानार्थं कृषेः उन्नतौ बलाधानम्, लघूद्योग-कुटीरोद्योगानां . च प्रोत्साहनार्थ सर्वकारेण आर्थिक साहाय्यमपि वितीर्णम् ।
  2. द्वितीय-पञ्चवर्षीया योजना-कालः-1956 ईसवीयतः आरम्भ 1961 ई. यावदासीत्। औद्योगिकीकरणं योजनायाः मुख्यं लक्ष्यं संजातम्। समाजबादिन्या व्यवस्थायाः -
  3. तृतीय-पञ्चवर्षीया योजना-कालः-1961 ई. आरभ्य 1966 ई. यावदासीत्। । एकखर्वपरिमितो व्ययो निर्धारितोऽभत्। अस्यां योजनायाम् उद्योगेषु खनिजोत्पादने च ।
  4. चतुर्थ-पञ्चवर्षीया योजना-काल:-एषा योजना 13 अप्रैल 1969 ईसवीये प्रारब्धा। एतदर्थम् 2375. कोटि-परिमितो व्ययो निर्धारितोऽभूत्। कृषेर्महत्त्वं एवं न आर्थिकविषमता-निराकरणे बलम् आधीयते, सहकारिता-शिक्षा-जन-स्वास्थ्यादिकार्यक्रमेषु वरायस्त्वं च निद्रिश्यते।

सहकारि-समितीनाम् उपयोगिता[सम्पादयतु]

सहकारि-समितीन कार्यक्षेत्रम् अतीव व्यापकम्। आसां जालं भारतवर्षे प्रतिग्रामं सुनियन्त्रितरूपेण प्रसरति । समितीनाम् एतासां प्रचारेण देशोऽतीव लाभान्वितोऽभूत्।

काश्चन मुख्या उपलब्धयोऽत्र निद्रिश्यन्ते-

  1. आत्मनिर्भरता,
  2. दीन-जन-शोषण-समापनम्,
  3. लाभांशस्य सहकर्मिषु समरूपेण विभाजनम्,
  4. पारस्परिक सहयोगः
  5. समाजवादि-ग्रामीण-व्यावस्था
  6. पञ्चवर्षीय-योजनापूर्ती
  7. उत्पादने योगदानम्
  8. वस्तु-वितरणे-योग्य-सदस्यानां चयनम्
  9. सुदृढ़-पथनिर्माणम्
  10. कूपनिर्माणम्
  11. चिकित्सालयनिर्माणम्
  12. वाचनालय-पुस्तकालयादीनां संस्थापनम्

सहकारिता आर्थिक-क्षेत्रे मध्यस्थनिराकरणेन लाभांशोपार्जने सदस्यानां साहाय्यम् आचरति। बुल्फ-महोदयेन कथितं यत्-सहकारितान्दोलनेन धनाभावग्रस्तक्षेत्रेषु धनं प्रापितम्, ! निराशाः कृषकादयः सदा-आशा-समन्विता विहिताः, उत्पीडिता उन्मूलिताश्च पुनः । प्रत्यारोपिताः, कुसीदजीविभ्यश्च लोकाः परिरक्षिताः। सहकारितायाः मूलमन्त्रो मितव्ययिता । स्पष्टवादितायाः, स्वाभिमानस्य च उदयोऽभूत्। सहकारितायाः प्रचारेण शिक्षणात्मका लाभाः अपि दृश्यन्ते o समिति-कार्यज्ञानम्, वादविवादविधिज्ञानन् म्लगठनस्यव्यवस्थायाश्च ] |उत्तरदायित्वभावनाजागृतिः, जनतात्रिकशासन-व्यवस्थाशिक्षणम्, राजनीतिकी जागरूकता समाजोत्थानेऽपि सहकारिताया महत्त्वपूर्ण योगदानं लक्ष्यते। स्वच्छता-स्वास्थ्य- { चिकित्सा-मनोरञ्जनादिसाधनानां बुद्ध्या ग्रामीणानां सामूहिक-सुविधावाप्तिः। कूप-तडाग- { नालिका-मार्गादीनां नवनिर्माणेन पुनर्निर्माणेन परिष्कारेण चैषा जनमानसं तोषयति पोषयति ! च।

सहकारिताया दोषा न्यूनताश्च[सम्पादयतु]

सहकारितान्दोलनस्य सुखावहत्वेऽपि केचन बद्धमूला केचन दोषाः लक्ष्यन्ते, येन कृतेऽपि प्रयत्ने वाञ्छिता लाभा नाप्यन्ते। तत्र केचन दोषाः प्राधान्येनोल्लेखम् अर्हन्ति। ते सन्ति– -

  • भारतीयजनतायाः अशिक्षितत्वम्,
  • जनतायाः पूर्णसहयोगाभावः,
  • कार्यविधी
  • ऋणादिदाने वैधानिक-विघ्नप्राचुर्यम्, हस्ताक्षेप:,
  • ऋणदाने उत्कोचग्रहणप्रवृत्तिः,
  • जातिवाद-वर्गवाद-संम्प्रदायादिदोषः
  • अधिकारिणां सदस्यानां च ऋण-प्रत्यर्पणे विलम्बनम्, समिति-सर्वस्वापहरणप्रवृत्तिः ।

बाह्यसम्पर्काः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सहकारिता-आन्दोलनम्&oldid=409814" इत्यस्माद् पुनः प्राप्तिः