सहसा विदधीत न क्रियाम्
सहसा विदधीत न क्रियाम्
[सम्पादयतु]महाकवि भारवेः किरातार्जुनीयम्
[सम्पादयतु]अविचारितेऽर्थ सहसा शब्दस्य प्रयोगः कोशकारैः आम्नातः l अत एव महाकविना भारविना
अपि नीतिवाक्यरूपेण अयं पद्यांशो उपन्यस्तः l महाकवेः भारवेः महाकाव्ये किरातार्जुनीये
शतशः सूक्तयः उक्ताः सन्ति lअस्याः सूक्त्याः महत्वं अत्यधिकं विद्यतेl सूष्टुक्तं भारविना
महाकविना यत् कोऽपि जनः सहसा किमपि कार्यं न विदधीत ,यतो हि अविवेकः परमापदां
पदमस्ति l महाकविनोक्तः सम्पूर्णः श्लोकः विद्यते –
"सहसा विददीत न क्रियामविवेकः परमापदां पदम् l
वृणुते हि विमृश्यकारिणं गुनलुब्धाः स्वयमेव सम्पदःll"
अस्मिन् संसारे यः जनःसम्यक् रूपेण विचार्य कार्याणि करोति ,स एव ऐश्वर्यशालि भवति l
श्लोके पठितानां कतिपयशब्दानां तात्पर्यस्य स्पष्टिकरणं आवश्यकम् अस्ति l को नाम विवेकः?
कश्च अविवेकः?विवेकस्य मानवजीवने कीदृशी उपयोगिता इत्यादीनां प्रश्नानां समाधानमपि
आवश्यकं दृश्यते lभारतीयमनीषानुसारेण पुण्यापुण्ययोः ,सद् -असतोः ,कर्तव्याकर्तव्ययोः
श्रेयः प्रेयसोः चापि येन साधनेन विधिवद् विवेचनं भवति तदेव विवेकः उच्यते l एतत्
अतिरिक्तः अविवेकशब्दवाच्यः l विवेक एवेह जगति ज्ञानमिति ,बुद्धिरिति धीरिरिति च
व्यवह्लीयते l विवेक एव सुखस्य मूलं,शान्तेः निधानं ,धृत्या निदानं ,श्रियः आश्रयः ,गुणानां
आगारः,विभवस्य भूमिः,उन्नतेः साधनं ,सत्कर्माणाम् आकारः,विनयस्य कारणं च l ये जनाः
विवेकपूर्वकं किमपि कार्यं कुर्वन्ति तेषां कृते नास्ति कष्टावसरः ll