साक्षरता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Global adult literacy according to the CIA Factbook.
World illiteracy halved between 1970 and 2005.

अक्षरज्ञानेन विना प्रत्येकजनस्य अथवा देशस्य उन्नतिः असाध्या इति आलोच्य साक्षरान्दोलनं, प्रवर्तितमस्ति । भारतदेशस्य जनसङ्ख्या १९९१ तमे वर्षे कृतजनगणनाधारेण ८४ कोटिपरिमिता आसीत् । २०१३ तमे वर्षे १२० कोटिपरिमिता अस्ति । भारते प्रतिशतं सप्ततिजनाः साक्षराः सन्ति । पुरुषाः अधिकप्रमाणेन साक्षराः सन्ति । किन्तु स्त्रियः ४० प्रतिशतं मिताः साक्षराः इति तु दुःखदायकः विषयः अस्ति । आहत्य इदानीं प्रतिशतं सप्तति जनाः साक्षराः सन्ति । केरलराज्ये सर्वे जनाः साक्षराः इति तु अतीव महत्वपूर्णः विषयः अस्ति । जनाः विविधक्षेत्रेषु कार्यं कुर्वन्ति । सर्वकारीयसेवायां तथा स्वायत्तसेवायां साक्षराः कार्यं कुर्वन्ति । कृषि क्षेत्रे तथा दैनन्दिनश्रमक्षेत्रे वर्तमानाः जनाः विशेषतः निरक्षराः सन्ति ।

देशस्य अभिवृध्दिविषये चर्चाप्रसङ्गे साक्षरता महत्वपूर्णा भवति । साक्षराः जनाः एव स्वकीयंजीवनम् उत्तमरीत्या कल्पयन्ति इति तु सदा सत्यम् अस्ति । साक्षरता सर्वेषां जनानां वरः एव । स्वेष्टकार्यकरणे विद्या, बुद्धिः देहबलम् आरोग्यं च कारणानि भवन्ति । स्वीयबुध्दिद्वारा कार्यप्रवर्तनार्थम् अक्षरज्ञानम् अनिवार्यम् अस्ति । भारतीयसम्विधाने सर्वेषां जनानां प्राथमिकं शिक्षणम् अनिवार्यं कृतमस्ति । अथापि दरिद्र्ताकारणात् जनाः स्वसन्तानं विद्यालयं न प्रेषयन्ति । यत्र कुत्रापि कार्ये नियोजयन्ति । तेन च जीवननिर्वहणं साधयन्ति । भारते सवजनानाम् अक्षरज्ञानप्राप्तये सर्वकारेणापि अनेके कार्यक्रमाः योजनाः उपायाः कृताः सन्ति । मानवस्य जीवने तत्कालिकविषयज्ञानार्थं देशस्य विषये चिन्तनार्थं धन सम्पादनार्थं तथा उद्योगस्य कृते च अक्षरज्ञानं अथवा कनिष्ठार्हता आवश्यिकी अस्ति । राजकीयक्षेत्रे अर्हताविषयः नास्ति । तत्र वयः अर्हताविषयः इति तु खेदकारकः विषयः अस्ति । अस्माकं प्रशासने स्थितानामपि विद्यार्हतायाः निर्धारः आवश्यकः अस्ति ।

प्राथमिकशिक्षा अनिवार्या कृता अस्ति । तत्र चतुर्दशवर्षपर्यन्तं बालाः शिक्षाप्राप्तये अर्हाः भवन्ति । सर्वे बालाः शिक्षां प्राप्नुयुः इति सर्वकाराः अनेक प्रोत्साहककार्याणि कुर्वन्तः सन्ति । तदर्थं मध्याह्नभोजनव्यवस्था सर्वकारैः कृता अस्ति । दूरतः आगन्तुं द्विचक्रिकाः दत्ताः सन्ति । बालानां गणनां तदा तदा कुर्वन्ति । एतेन बाल्ये एकोऽपि बालः, एकाऽपि बाला च निरक्षरः न भवतु इति उद्देशः अस्ति ।

जनसङ्ख्यायाः सप्ततिप्रतिशतं जनाः मध्ववयस्काः अथववृध्दाः सन्ति । एतेषु बहवः अशिक्षिताः । एतेषां शिक्षणार्थं वयस्कशिक्षणम् इति योजना आरब्धा अस्ति । ‘रात्रिशाला’ इति कार्यक्रमे निरक्षराणां अक्षरज्ञनार्थं तत्र तत्र साक्षरताप्रचारं प्रशिक्षणं च कुर्वन्ति । यथा यथा जनसङ्ख्या अधिकाऽभवत् तथा साक्षरता अपि वर्धिता चेत् उत्तमं भवति स्म । किन्तु अधुनातनकालेऽपि अनेके जनाः अशिक्षिताः इति तु भारतस्य अभिवृद्धये हानिकारकः विषयः अस्ति । साक्षराणां स्वमत्यनुसारं कार्यं कर्तुम् अवकाशः भवति । निरक्षराः स्वसामर्थ्यमपि न जानन्ति । तेषु या शक्तिः अस्ति कला सङ्गीत कुशलशिल्प परिणतिः अस्ति तस्य सदुपयोगं कर्तुं ते समर्थाः न भवन्ति । अन्धविश्वासः, व्यवहारज्ञानाभावः , देशविदेशस्थितिगतिविषये अज्ञानं सर्वत्र बाधां जनयन्ति ।

सर्वकारस्य योजनायाः लाभं स्वीकर्तुमपि निरक्षराः असमर्थाः भवन्ति । यद्यपि आङ्ग्लानां प्रशासनकाले एव भारते शिक्षणव्यवस्था कल्पिता आसीत् । स्वातन्त्र्मानन्तरम् अनेकाः योजनाः कृताः सन्ति । अथापि जनाः निरक्षराः इति तु खेदकरः विषयः । साक्षरतायां व्यक्तिः स्वनाम स्वराज्य स्वग्राम् स्वदेश स्वानुभवप्रकटनं हस्ताक्षरलेखनम् इत्यादि विषयेषु ज्ञानप्रात्पिः भवति । देशे सर्वत्र अक्षरज्ञानस्य महत्त्वं धोषणाभिः, पत्रिकाभिः दूरदर्शने, मार्गदर्शनैः च प्रचारितम् अस्ति । अनक्षराः यत् कष्टम् अनुभवन्ति ते साक्षराः भवन्ति चेत् कष्टं निवारितं भवति । विशेषतः महिलानाम् आर्थिकज्ञानं, व्यवहारज्ञानं, कुटुम्बपरिपालनयोग्यता कलादिषु आसक्तिः अक्षर ज्ञानेनैव भवति । देशे साक्षरतान्दोलनं सततं प्रवृत्तम् अस्ति । तत्र सर्वे अक्षरताः सक्रियं पात्रं निर्वहन्ति चेत् अन्येषाम् अपि सफलता सिध्यति । सर्वे साक्षराः भवन्तु तथा साक्षराः अपि कार्यं कुर्वन्तु इति आशयः सर्वकारस्य अस्ति । साक्षरतादिनाचरणॆ अक्षरविद्या एव चर्चाविषयः अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=साक्षरता&oldid=295896" इत्यस्माद् पुनः प्राप्तिः