सान्तेराय् खलेम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सान्तेराय् खलेम् जनकःएस्.एस्. थाङ्ग खियेव् ग्रामः मौखेयाव् जोवाय् मण्डलम्- जैण्टियामण्डलम् राज्यम्-मेघालयः प्रपञ्चे अधिका वृष्टिः कुत्र भवति इति प्रश्नः भवति चेत् सर्वे वदन्ति चिरापुञ्जी इति । एतन्नगरं मेघालयराज्ये अस्ति । मेघालयराज्यस्य पूर्वोत्तरभागयोः असमराज्यमस्ति । पश्चिमदक्षिणभागौ बांग्लादेशेन परिवृतौ । ग्यारो-खासि-जयन्ति-पर्वताः पश्चिमतः पूर्वदिशां प्रति एकस्याम् एव पङ्क्तौ प्रसृताः सन्ति । प्रावृषि दक्षिणतः उत्तरदिशं प्रति पूर्वसमुद्रात् वहद्भिः मारुतैः सह मेघाः आगच्छन्ति । ते च एतैः पर्वतैः अवरुद्धाः वृष्टिं सम्पादयन्ति । तदा अधिका वृष्टिः भवति । कदाचित् शीतकाले अपि चण्डमारुतैः वृष्टिः सम्पादिता भवति । तदा अपि अधिका वृष्टिः भवति ।

मेघालये जयन्तीपर्वतश्रेण्या अवृतः भागः एव जयन्तीमण्डलम् इति ख्यातम् । तत्र जोवायपत्रालयव्याप्तौ मौखैयाव इति एकः ग्रामः । तत्र एस्.एस्. थाङ् खियेव्, इबोलैना खलेम् दम्पत्योः पुत्री सान्तेराय् खलेम् ।सा २०-७-१९७९ तमे दिनाङ्के जन्म प्राप्तवती । जनकः केवलं षष्ठकक्ष्यापर्यन्तं पठितवान् आसीत् । उद्योगः तु कस्मिंश्चित् यन्त्रागारे । माता मेट्रिक्परीक्षाम् उत्तीर्य प्राथमिकशालायां अध्यापिका आसीत् । १९८६ तमे वर्षे डिसेम्बर् मासे १८ तमे दिने पितरौ कार्यार्थं स्वकार्यालयं गतवन्तौ । सान्तेराया एकाकिनी एव गृहे आसीत् । मित्रैः सह क्रीडितुं गृहात् बहिः आगतवती । ग्रामस्य पुरतः तडागे जनाः वस्त्रं क्षालयन्ति, सः प्रदेशः पूर्वमेव तया दृष्टः । स्वहस्ते स्थितं करवस्त्रं क्षालयामि इति विचिन्त्य वस्त्रं क्लेदयित्वा शिलायाः उपरि तद्वस्त्रं क्षालयन्ती एकस्यां शिलायां उपविष्टा आसीत् । अन्ये बालाः तटे आसन् । क्रीडितुम् आगतेषु कश्चित् पलङ्ग्डान् इति साधैकवर्षीयः बालः अपि आसीत्। क्रीडारताः बालाः तस्य विषये अवधानं न दत्तवन्तः । अग्रे गतवन्तः सर्वे । पृष्ठतः स्थितः स बालः सरः पश्यति । सरसः समीपवर्तिनी भूमिः प्रवहणीभूता आसीत् । सः बालः जले क्रीडितुम् आगतः । तस्य चलनस्य अधिकः अभ्यासः न आसीत् । सः अग्रे पतितः । प्रवणीभूतायां भूमौ लुठन्सरसि पतितः। सरसः अन्यस्मिन् भागे कश्चन बालकः शिलां क्षिपन् आसीत् । सः क्षिप्ता शिला कियत् दूरं गच्छति इति द्र्ष्टुकामः आसीत् । यदि शनैः क्षिपामि कियद्दूरं गच्छेत् , यदि वेगेन क्षिपामि तदा कियद्दूरं गच्छेत् इति, यदि भवनस्य उपरि क्षिपामि तदा कीदृशः शब्दः भवेत् ? किमर्थं तादृशः शब्दः भवति । एवं परीक्षा करणीया इति विचिन्तितवान् । यदि तेन क्षिप्ता शिला कस्यचित् जनस्य उपरि पतिता चेत् किं भवेत् , तस्य मनसि एषः विचारः नागतः । तस्मिन् समये जनाः सर्वे स्वस्वकार्यार्थं भिन्नभिन्नस्थानानि गतवन्तः आसन् । मार्गः निर्जनः असीत् । अतः एषा स्थितिः तस्य कृते प्रेरणादायिनी आसीत् । सान्तेराया अपि वस्त्रक्षालनं परित्यज्य बालकस्य शिलाक्षेपणं द्रष्टुम् आरब्धवती । सन्तेरायया सह आगतः बालः जले पतितं बालं दृष्टवा दुःखितः। परन्तु जलात् उन्नेतुं प्रयत्नं नाकरोत्। तस्मात् स्थानात् न च्युतः । परन्तु सान्तेरायाम् आहूय उक्तवान् –“बालः सरसि पतितः, जले निमज्जन् अस्ति” इति सन्तेराया परावृत्य पश्यति सरसः जले बालः निममज्जन् अस्ति । सा करुणया पूरिता , बालः मृतः भवति इति चिन्तितवती । कस्य बालः?, किमर्थम् अत्र आगतः? सरसि कथं पतितः इत्यादयः प्रश्नाः तस्याः मनसि समुदिताः । परन्तु चिन्तयितुं समयः नासीत् । करवस्त्रं शिलायामेव स्थापयित्वा सरः प्रविष्टवती । बालम् आलिङ्ग्य तटपर्यन्तम् आनीतवती । तटः प्रवणीभूतः । तत्र जलमपि स्वकण्ठपर्यन्तम् आसीत् । बालः भारवान् । बालं जलात् उन्नेतुम् अशक्ता । ज्येष्ठाः केऽपि तत्र नासन् । तटे स्थितस्य बालस्य साहाय्यं पृष्टवती । यदा सः बालः आगत्य शिशोः हस्तं गृहीतवान् तदा स्वयं तटम् आगत्य स्थितवती । जलम् उदरे प्रविश्य सः शिशुः प्रज्ञाहीनः आसीत् । सः न स्पन्दते स्म अतः सा सम्भ्रान्ता अभवत् । सहवर्ती बालकः गृहं प्रति धावितवान् । तस्मिन् समये मार्गे तस्य ग्रामस्य प्रौढशालायाः कार्यदर्शी सुचियाङ्गः आगतः । शिशोः स्थितिं दृष्ट्वा सम्भ्रान्तः । सान्तेरायायाः वस्त्राणि दृष्टवा अवगतवान् यत् एषा जले पतितं बालम् उन्नीतवती इति । तां पृष्ट्वा दृढीकृतवान् । शिशोः प्रथमचिकित्सा आवश्यकी आसीत् । सुचियाङ्ग् एव तस्य शिशोः प्रथमचिकित्सां दापितवान् । उदरे स्थितं जलं बहिरागतम् । शिशुः श्वसितुम् आरब्धवान् । सान्तेरायायाः कार्यं बालकेन ग्रामजनाः सर्वे विदितवन्तः । समीपवर्तिभ्यः गृहेभ्यः जनाः धावन्तः आगताः । शिशोः प्राणरक्षणं कृतवत्याः सान्तेरयायाः साहसं प्राशंसन् । सः शिशुः के.एम्.मुखिम्, तथा अरियोडान् दम्पत्योः इति ज्ञातमनन्तरम् । सुचियाङ्ग एतं शिशुं तयोः गृहं प्रेषयित्वा स्वगृहं प्रति गतवान् । एतया घटनया पार्श्ववर्तिनः गृहजनाः जागरिताः । स्वपुत्राः पुत्र्यः च सरः प्रति गमनविषये अवधानं दत्तवन्तः। सान्तेरायायाः मातपितरौ स्वपुत्रीं प्रशंसितवन्तौ । यद्यपि वयसा सा कनिष्ठा तथापि शिशुरक्षणकार्यं धैर्येण साधितवती । भारतबालकल्याणमण्डली एतस्याः बालायाः कार्यं विगणय्य २५-१-१९८८ तमे दिने राष्ट्रप्रशस्त्या सममानयत् । अधुना एषा उत्तमा छात्रा इति ख्याता । " "

"https://sa.wikipedia.org/w/index.php?title=सान्तेराय्_खलेम्&oldid=367699" इत्यस्माद् प्रतिप्राप्तम्