सावरी नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गोदावर्याः प्रधानोपनदीषु एका उपनदी सावरी नदी। इयम् उत्कलस्य पूर्वपर्वतमालायाः पश्चिमभागे 1370 मिटार् परिमित- उन्नतौ विद्यमानसिनकारारामपर्वतमालातः उत्पन्ना । इयम् उत्कलस्य कोलावनदी नाम्ना अपि परिचिता वर्तते। सावरीनद्याः तीरप्रान्ते प्रायः 1250 मिमि प्रतिशतम् वृष्टिपातः भवति। इयं छत्तिशगड- उत्कलरज्ययोः मध्ये साधारणसीमानिर्धारणं करोति तथा च अन्ते गोदावरीनद्यां मिलित्वा अन्ध्रप्रदेशे प्रविशति। उत्कले सावरीनद्याः उपरि पूर्णतया उच्चकोलावजलबन्धप्रकल्पः दरीदृश्यते,यत् सस्यसेचनाय जलविद्युत् उत्पादनाय च जलप्रदानरूपकार्यसम्पादनार्थं निर्मितः एकः प्रधानप्रकल्पः वर्तते।

छत्तिशगड-उत्कलयोः मध्ये सीमायां 200 किलोमिटार दीर्घप्रवाहः अस्ति।अयं प्रतिवर्गकिलोमिटार 2.25 मिटार् पर्यन्तं व्याप्तः वर्तते। नद्याः परिसरप्रान्तेषु प्लावननिवारणाय नद्यां (20 मिटार्) सेतुनिर्माणेन पर्याप्तं जलविद्यूत् उत्पादितुं शक्यते। उत्कले इन्दिवती नद्याम् अतिरिक्तं जलम् उभयनालमाध्यमेन सावरिनद्यां प्रवाहयितुं शक्यते, येन इन्द्रावतीनद्याः प्लावितजलं स्वाभाविकरुपेण सावरी उपत्यकायां मिलित्वा जलप्रवाहं प्रभावितं करोति।

सिलेरु नदी (तस्याः ऊर्ध्वप्रान्ते माकुकुण्डनाम्ना परिचिता) या तत्रत्या प्रधाना उपनदी, सा अन्ध्रप्रदेशस्य छत्तिशगडराज्यस्य उत्कलस्य च संयोगक्षेत्रे सावरिनद्या सह मिलति। सीलेरुनद्यां जलविद्यूत् उत्पादनस्य महती सम्भावना वर्तते यत् मकुकन्दः,वालिमेला,ऊर्ध्वसीलारुः,डोकारयिः एवं च निम्नसिलेरुः जलविद्यूत् प्रकल्पनिर्माणेन पर्याप्ततया प्रभावितः अस्ति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सावरी_नदी&oldid=463582" इत्यस्माद् प्रतिप्राप्तम्