सिन्थेरी राक्स्
दिखावट
सिन्थेरि राक्स् (Syntheri Rocks) कर्णाटकस्य उत्तरकन्नडमण्डले दाण्डेलीनगरतः ३२ कि मी दूरे अस्ति । अत्रत्यः शिलापर्वतः एकशिलानिर्मितः अस्ति । शिलापर्वतः १ किलोमीटरदीर्घः अस्ति । एतस्य दर्शनार्थं वने सोपानमार्गेण अधः गन्तव्यम् । शिलासन्धितः जलं निस्सरति । सर्वदा अत्र जलं प्रवहति । अत्यन्तम् अपायकारि स्थलमेतत् । शिलापर्वते तत्र तत्र मधुमक्षिकाः वसन्ति । तेषां झेङ्कारः सदा श्रोतुं शक्यते ।
अत्रैव समीपे दर्शकस्थानम् अस्ति । इतः काळीनदी द्रष्टुं शक्यते । वसत्याः कृते यल्लापुरं, कारवारं, दाण्डेली हळियाळप्रदेशेषु व्यवस्था अस्ति । वर्षाकाले दर्शनं कष्टसाध्यम् ।
मार्गः
[सम्पादयतु]- कारवारतः १३७ कि.मी ।
- दाण्डेलीतः ३२ कि.मी
- अम्बिकानगरतः २२ कि.मी
- बेङ्गळूरुतः ४३० कि.मी
- हुब्बळ्ळीतः ७५ कि.मी
- कुळगी निसर्गधामतः ४८ कि.मी ।