सी के वेङ्कटरामय्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



सि.के.वेङ्कटरामय्यः ( C K Venkataramayya)

बाल्यं वृत्तिजीवनं च[सम्पादयतु]

नञ्जम्मकृष्णप्पदम्पत्योः पुत्रः वेङकटरामय्यः। बेङ्गळूरुमण्डलस्य चन्नपट्टण-उपमण्डलस्य पोट्लु ग्रामे १८९६तमे वर्षे डिसेम्बर् मासस्य दशमे दिनाङ्के जन्म अभवत् । करविभागे एतस्य पिता उद्योगी आसीत् । पितः अकाले मरणं प्राप्तवान् । अतः गृहपाठं कृत्वा धनं सम्पाद्य विद्याभ्यासः अनुवर्तनीयः असीत् । बेङ्गळूरु सेन्ट्रल् महाविद्यालये व्यासङगं कृत्वा पदवीं प्राप्य स्नातकोत्तरपदवीनिम्मित्तं मुम्बयीनगरं गतवान् । तत्र एम्.ए .(कन्नड) तथा एल्.एल्.बी. पदव्याः शिक्षणं समाप्य श्रीरङ्गपट्टणे न्यायवादिवृत्तेः आरम्भं कृतवान् । १९२४ तमे वर्षे मैसूरुसर्वकरेण एषः मुख्यभाषान्तरकाररूपेण नियुक्तः । एषः दीर्घकालसेवां कृत्वा १९५५तमे वर्षे निवृत्तः जातः।

व्यक्तित्वम्[सम्पादयतु]

ततः उत्तमः लेखकः,पत्रिकालेखकः, श्रेष्ठः अनुवादकः,विमर्शकः,कुशलः वाग्मी च जातः । एषः साहित्यसंस्कृति- अभिवृद्धिविभागस्य प्रथमनिर्देशकरूपेण नियुक्तः अभवत् । सि.के वेङ्कटरामय्यः अनुशासनशीलः आसीत् । उत्तमश्रेण्याः भाषणकारः, प्रसिद्धः विद्वांसः च एषः उपन्यासकलां करगतं कृतवान् आसीत् ।सामान्यतः दशवर्षाणि यावत् कन्नडसाहित्यपरिषदः कार्यदर्शी आसीत् ।

प्रशस्तयः[सम्पादयतु]

१९४७ तमे वर्षे बळ्ळारीमण्डलस्य हरपनहळ्ळीग्रामे प्रचलितस्य त्रिशंत्तमस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षपदवीम् अलङ्कृत्य पाण्डित्यपूर्णम् उपन्यासं कृत्वा रचनात्मककार्यस्य दिशि जनान् प्रेरितवान् । कर्णाटकस्य वचनसाहित्यस्य सेवायाम् आत्मानं प्रवर्तितवतः प्रतिभान्वितस्य वेङ्कटरामय्यस्य कृते १९५० तमे वर्षे मैसूरुमहाराजस्य परतया "राजसेवासक्तः” इति बिरुदं दत्तवन्तः । १९६२ तमे वर्षे भारतसर्वकारेण "पद्मश्री” प्रशस्तिः दत्ता । १९७१तमे वर्षे राज्यसाहित्य-अकाडमितः अपि प्रशस्तिः प्राप्ता । एषः महनीयः १९७३ तमे वर्षे एप्रिल् मासस्य ३ दिनाङ्के दिवङ्गतः । सि.के.वेङ्टरामय्यः उत्तमः लेखकः इत्यत्र तस्य कृतयः एव निदर्शनानि ।

कृतयः[सम्पादयतु]

  • आळिदमहास्वामियवरु (शासकाः महास्वामिनः)
  • भास महाकवि
  • महम्मद् पैगम्बर
  • अब्रहां लिङ्कन्
  • हर्षवर्धन
  • गौतमबुद्ध
  • नचिकेतः ब्रह्मवादी (नाटकम्)
  • मण्डोदरी (नाटकम्)
  • नम्म समाज (अस्माकं समाजः) (नाटकम्)
  • सुन्दरी (नाटकम्)
  • तुरायि (लघु कथानां सङ्ग्रहः)
  • हळ्ळिय कथेगळु (ग्रामीणकथाः)
  • नीने नन्न मुद्दुकृष्ण

एताः तस्य प्रसिद्धाः कृतयः ।

"https://sa.wikipedia.org/w/index.php?title=सी_के_वेङ्कटरामय्य&oldid=406528" इत्यस्माद् प्रतिप्राप्तम्