सूत्रभेदाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥

लक्षणम् -

  • संज्ञा - संज्ञासंज्ञिप्रत्यायकं सूत्रम् ।
  • परिभाषा - अनियमे नियमकारिणी ।
  • विधिः - आदेशादिविधायकं सूत्रम् ।
  • नियमः - प्राप्तस्य विधेः नियामकम् । (सिद्धे सत्यारभ्यमानो विधिः)
  • अतिदेशः - अन्यतुल्यत्वविधानम् ।
  • अधिकारः - एकत्र उपात्तस्य अन्यत्र व्यापारः ।

उदाहरणानि -

  • संज्ञासूत्रम् = वृद्धिरादैच्, अदेङ् गुणः, हलन्त्यम् ।
  • परिभाषासूत्रम् = तस्मिन्निति निर्दिष्टे पूर्वस्य ।
  • विधिसूत्रम् = वृद्धिरेचि, आद्गुण:, तस्य लोपः ।
  • नियमसूत्रम् = पतिः समास एव, कृत्तद्धितसमासाश्च।
  • अतिदेशसूत्रम् = स्थानिवदादेशोऽनल्विधौ ।
  • अधिकारसूत्रम् = प्रत्ययः, पूर्वत्रासिद्धम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सूत्रभेदाः&oldid=409852" इत्यस्माद् प्रतिप्राप्तम्