सामग्री पर जाएँ

सूर्यनमस्काराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • सरलभावेन दण्डायमानः भवतु ।
  • करतलद्वयं नमस्कारमुद्रया संयोज्य वक्षस्थलस्योपरि स्थापयतु ।
  • स्वाभाविकं श्वासं चालयतु ।
  • नेत्रद्वयं पिधाय उदितसूर्यं ध्यात्वा श्लोकमुच्चारयतु ।
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन् आपावृणु सत्यधर्माय दृष्टये ।

एकम्

  • हस्तद्वयमुपरि उत्थापयतु
  • बाहुद्वयेन कर्णद्वयं स्पृशतु ।

लघुत्तम

  • शनैः पूरकेण शरीरं पृष्ठदेशं प्रति स्वल्पम् अवनमयतु ।

द्वे

  • रेचकेण शनैः शनैः मेरुदण्डं सरलीकृत्य शरीरं पुरतः अवनमयतु ।
  • हस्तद्वयं पादौ च उभयतः भूमौ स्थापयतु ।
  • मस्तकेन जानुद्वयं स्पृशतु ।

त्रीणि

  • पूरकेण शनैः शनैः दक्षिणपादं पृष्ठदेशं प्रति प्रसारयतु ।
  • वामजानुं पुटीकृत्य वक्षः स्थलं स्पृशतु ।
  • ग्रीवां मस्तकं च ऊर्ध्वमुत्तोलयतु ।
  • आकाशं पश्यतु

चत्वारि

  • रेचकेण शनैः शनैः वामपादं दक्षिणपादेन सह समावस्थायां स्थापयतु ।
  • करतलद्वयेन् सह, पादयोः अङ्गुष्ठद्वयेन सह च शरीरस्य भारसाम्यं स्थापयतु ।
  • गुल्फतः आरभ्य मेरुदण्डं ग्रीवां च यावत् शरीरम् ऋजुतया स्थापयतु ।
  • करतलयोः सम्मुखस्थाभूमौ दृष्टिं स्थापयतु ।

पञ्च

  • जानुद्वयं भूमौ संलग्नं कृत्वा पूरकेण शनैः शनैः उदरं सक्थिनोः उपरि स्थापयतु ।
  • गुल्फद्वयोः उपरि नितम्बं स्थापयतु ।
  • स्कन्धं ग्रीवां च शिथिलीकृत्य मुखम् अधोमुखीभूय च रेचकेण मस्तकं भूमौ स्थापयतु ।

षट्

  • पूरकेण जानुद्वयं, पादयोः अङ्गुष्ठद्वयं, वक्षः स्थलं च भूमौ स्पृष्ट्वा शयनं करोतु ।
  • उदरं भूमौ न स्पृष्ट्वा नितम्बं स्वल्पमुत्थाप्य रेचकेण कपालं नासाग्रं च भूमौ स्थापयतु ।
  • हस्तद्वयं वक्षः स्थलमुभयतः स्थापयतु ।
देहली विमाननिस्थाने सूर्यनमस्काराणाम् आकृतिः

सप्त

  • पूरकेण शनैः शनैः मस्तकमुत्थाप्य नाभितः शरीरमूर्ध्वमुत्थापयतु ।
  • रेचकेणा वक्षः स्थलं पुरस्कृत्य ग्रीवां च ईषत् वक्रीकृत्य आकाशं पश्यतु ।
  • समग्रशरीरस्य भारं हस्तयोः उपरि स्थापयतु ।

अष्टौ

  • पूरकेण पूर्ववत् हस्तद्वयं पादद्वयं च भूमौ संस्थाप्य शरीरमूर्ध्वम् उत्थापयतु ।
  • मस्तकं भूमौ संलग्नं करोतु ।

नव

  • रेचकेण पञ्चावस्थावत् विश्रमतु ।

दश

  • पूरकेण नवमावस्थातः दक्षिणपादं सम्मुखमानयतु ।
  • दक्षिणोरु पुटीकृत्य जानुना वक्षः स्थलं स्पृष्ट्वा हस्तद्वयं दक्षिणपादमुभयतः स्थापयतु ।
  • रेचकेण मुखम् उपरि कृत्वा आकाशं पश्यतु ।

एकादश

  • पूरकेण दशमावस्थातः वामपादं सम्मुखमानयतु ।
  • कटिदेशतः शरीरं सम्मुखमानीय हस्तद्वयेन पादद्वयं स्पृशतु ।

द्वादश

  • शनैः शनैः रेचकेण शरीरमुत्थाप्य ऋजुतया दण्डायमानः भवतु ।
  • हस्तद्वयेन वक्षः स्थलं स्पृष्ट्वा नमस्कारमुद्रया स्थिरः भवत् ।
मन्त्राः चक्राणि आसनम्
Seed Salutation
1ॐ ह्रांॐ मित्राय नमःअनन्तचक्रम्प्रणामासनम्
2ॐ ह्रींॐ रवये नमःविशुद्धिचक्रम्हस्तोत्थानासनम्
3ॐ ह्रूंॐ सूर्याय नमःस्वाधिष्ठानचक्रम्हस्तपादासनम्
4ॐ ह्रैंॐ भानवे नमःआज्ञाचक्रम्एकपादप्रसारणासनम्
5ॐ ह्रौंॐ खगाय नमःविशुद्धिचक्रम्दण्डासनम्
6ॐ ह्रःॐ पूष्णे नमःमणिपुरचक्रम्अष्टाङ्गनमस्कारासनम्
7ॐ ह्रां)ॐ हिरण्यगर्भाय नमःस्वाधिष्ठानचक्रम्भुजङ्गासनम्
8ॐ मरीचये नमःविशुद्धिचक्रम्अधोमुखश्वानासनम्
9ॐ ह्रूंॐ आदित्याय नमःआज्ञाचक्रम्Ashwa Sanchalanasana
10ॐ ह्रैंॐ सवित्रे नमःस्वाधिष्ठानचक्रम्उत्थानासनम्
11ह्रौंॐ अर्काय नमःविशुद्धिचक्रम्हस्तोत्थानासनम्
12ॐ ह्रःॐ भास्कराय नमःअनन्तचक्रम्प्रणामासनम्
13(ॐ श्रीसवित्रसूर्यनारायणाय नमः) अनन्तचक्रम्प्रणामासनम्
आदित्यस्य नमस्कारन् ये कुर्वन्ति दिने दिने ।
आयुः प्रज्ञा बलम् वीर्यम् तेजस्तेशान् च जायते ॥

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
  • Surya namaskara, A Technique of Solar Vitalization, Swami Satyananda Saraswati, ISBN 81-85787-35-2.
  • Suryanamaskara, Sri K. Pattabhi Jois, New York: Ashtanga Yoga New York, 2005.
  • Yoga in Modern India, Joseph S. Alter, Princeton University Press, 2004.
  • Ten Point Way to Health, Rajah of Aundh, J.M. Dent & Sons, 1938
  • A wiki article on wikihow:How to Do the Sun Salute
"https://sa.wikipedia.org/w/index.php?title=सूर्यनमस्काराः&oldid=396024" इत्यस्माद् प्रतिप्राप्तम्