सूर्यमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


करणविधानम्[सम्पादयतु]

अनामिकायाः अग्रभागम् अङ्गुष्टस्य मूलेनीत्वा अङ्गुष्ठम् अनामिकायाः पृ‌ष्टभागे स्थापनीयं । तदा शून्यमुद्रा सम्भवति ।

परिणामः[सम्पादयतु]

पृथ्वीतत्वं न्यूनीभूत्वा अग्नितत्ववृध्दिः भवति । अग्नितत्वं शरीरस्य उष्णताम् अधिकं करोति । अग्नितत्वस्य वृध्या पचनक्रिया समीचीनतया भवति । उष्णतायाः वृध्या स्थूलकायं शरीरं कृषं भवति । कफ, शीत, कण्ठवेदनायै शून्यमुद्रा बहु प्रयोजनकारिणी अस्ति। अग्निः नेत्रदृष्टी सम्बन्धी अस्ति । अनया मुद्रया दृष्टिदोषः दूरीभवति ।

उपयोगः[सम्पादयतु]

सूर्यमुद्रा शैत्यं, कम्पनं च दूरीकरोति । त्वक्, हस्तपादौ यदा शीतलौ भवतः तदा अनया मुद्रया उष्णांशः र्वद्धी भूत्वा हस्तपादयोः शक्तिः अधिका भवति । स्थूलकायं कृषं कर्तुं इयं मुद्रा रामबाणः इव कार्यं करोति । इयं मुद्रा प्रतिदिनं ५० निमेषपर्यन्तं क्रियते चेत् स्थूलकायं शरीरं दृढकायं कर्तुं शक्यते । एकमासपर्यन्तं प्रतिदिनं सूर्यमुद्राकरणेन किलो द्वयं न्यूनीकर्तुं शक्यते । उपहारसेवने अपि मितिः आवश्यकी अस्ति । रक्ते कोलेस्ट्राल् प्रमाणं न्यूनीकरोति । बुभुक्षां उत्पादयितुं इयं मुद्रा बहु सहकारिणी अस्ति । नेत्रवेदना क्यटराक्ट् अपि गुणीभवति । थैरैड् ग्रन्थ्याः कार्यं कुशलं करोति । दोषस्य यदा शमनं भवति तदा मुद्राकरणं स्थगितव्यम् ।

लिङ्गमुद्रायाः सर्वप्रयोजनानि अस्यां मुद्रायां निहितानि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सूर्यमुद्रा&oldid=409856" इत्यस्माद् प्रतिप्राप्तम्