सामग्री पर जाएँ

सोलर् इम्पल्स्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सोलर् इम्पल्स्
Solar Impulse
सोलर इम्पल्स् २ (HB-SIB) विहङ्गं चित्रम्
प्रकारः प्रयोगात्मकं सौरूर्जया चलत् विमानम्
मूलदेशः स्विझ्
निर्माता सोलार् इम्पल्स्
प्रारूपदाता सोलार् इम्पल्स्
प्रथमं प्रयाणम् ३/१२/२००९
उत्पादनसंख्या २ (काश्चन सूचनाः स्थापिताः)

सोलर् इम्पल्स् ( /ˈsoʊlər ɛmpls/) (हिन्दी: सौर आवेग, आङ्ग्ल: Solar impulse) उत सौरावेगः एकम् उत्कृष्टं सौरविमानम् अस्ति । तत् विमानं यूरोपदेशस्य बृहत्तमसौरोर्जया चालितस्य विमानस्य परियोजना अस्ति । सा परियोजना 'इकोले पॉलीटेक्निक फेडरल डी लॉजेन्' इत्यनया संस्थया सञ्चाल्यते । परियोजनायाः आरम्भः 'बर्ट्रेण्ड् पिकार्ड्-इत्याख्येन कृतः । सः पुरा संयुक्तरीत्या प्रप्रथमवारं वागोलेन विश्वस्य सततं परिक्रमम् अकरोत् [१] । सौरोर्जया चालितं तत् प्रप्रथमं विमानम् अस्ति । तस्य सौरविमानस्य स्विस-देशे विमानपञ्जीकरणस्य कूटसङ्ख्या HB -SIA अस्ति । तस्मिन् याने एकस्य जनस्य कृते स्थातुं व्यवस्था अस्ति । तद्विमानं स्वशक्तेः उड्डयते, तथा च सततं षड्त्रिंशत् (३६) घण्टां यावत् डयितुं समर्थम् अस्ति [२] ।

२०१० तमस्य वर्षस्य जुलाई-मासस्य सप्तमे (७/७/२०१०) दिनाङ्के पश्चिमदेशस्य स्विट्झर्ल्याण्ड्-देशस्य पेयर्न-महानगरस्य विमानस्थानकात् तत् सौरविमानं प्रप्रथमवारं सफलतया उदडयत । तदा विमानं सततं षड्विंशतिः (२६) घण्टाः डयमानम् आसीत् । तासु षड्विंशतिघण्टासु नव (९) घण्टायाः यात्रा रात्रिकाले आसीत् । २०१० तमस्य वर्षस्य जुलाई-मासस्य अष्टमे (८/७/२०१०) दिनाङ्के तत् विमानं तस्मिन्नेव विमानस्थानके प्रत्यवातरत् ।

स्विट्झर्ल्याण्ड्-देशस्य वायुसेनायाः युद्धविमानस्य सप्तपञ्चाशत् (५७) वर्षीयः विमानचालकः एण्ड्रे बॉशबर्ड्-इत्याख्यः सौरविमानस्य चालकः आसीत् । सः विमानम् अत्यधिकशीतवातावरणे उदडीडयत् । एण्ड्रे इत्ययं चत्वारिंशत् (४०) वर्षेभ्यः विमानचालकत्वेन दायित्वं वहन् आसीत् । परन्तु तस्य जीवनस्य तत् प्रप्रथमं उड्डयनम् आसीत्, यस्मिन् पर्यावरणप्रदूषणेन अयुक्तं, तथा च उत्कृष्टरोमाञ्चयुक्तम् उड्ड्यनम् आसीत् [३] । तस्य विमानस्य वाजयोः (on wings) बहुमूल्ये सौरपट्टिके (Solar Panel) स्तः । ते सौरपट्टिके ६३.४ मी. लम्बमाने स्तः । विमानचालकः तद्विमानं दिवसकाले उदडीडयत् । तदा तस्य सौरविमानस्य औन्नत्यं ८,५०० मी. आसीत् । अतः सूर्यकिरणैः सौरपट्टिकयोः ऊर्जायाः सङ्ग्रहः अभवत् । ततः तस्याः ऊर्जायाः उपयोगेनैव तत् सौरविमानं रात्रिकाले १,५०० मी. उन्नते अडयत [४] ।

सोलर् इम्पल्स् २

[सम्पादयतु]
सोलर् इम्पल्स् २
आहत्यप्रवासः ४०,००० कि. मी.
गतिः ९० तः १४० कि.मी.
महत्तमम् औन्नत्यम् २८,००० फिट्
विमानचालकः १
विमानस्य लम्बमानः ७३.५ फिट्
फलम् ७३.५ फिट्
उपरितनं तलम् २९००० चो. फिट्
लम्बमानः २३६ फिट्
औन्नत्यम् २०.९ फिट्
भारः २,३०० कि. ग्रा.
स्रोतः अधिकृतजालस्थानम्

निर्माणेतिहासः

[सम्पादयतु]

२०११ तमे वर्षे स्विट्झर्ल्याण्ड्-देशे HB-SIB पञ्जीकरणारणानन्तरं द्वितीयसौरविमानस्य निर्माणकार्यम् आरब्धम् । आरम्भिके काले सौरविमाननिर्माणस्य कार्यं २०१३ तमे वर्षे पूर्णं भविष्यति इति अनुमानम् आसीत् । परन्तु ततः परीक्षकार्ये विलम्बे सति २०१२ तमे वर्षे सौरविमानस्य परीक्षणं प्रारब्धम् । ततः अनेकेषां परिवर्तनानाम् अनन्तरं २०१४ तमस्य वर्षस्य जून-मासस्य द्वितीये (२/६/२०१४) दिनाङ्के द्वितीयसौरविमानस्य प्रप्रथमम् उड्डयनम् अभवत् [५] ।

इम्पल्स् २

सम्बद्धाः लेखाः

[सम्पादयतु]

स्विट्झर्ल्याण्ड्

बोयिङ्ग् ७८७

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. ↑ FAI entry of the 1999 record
  2. ↑ Solar Impulse Project. "HB-SIA Mission". Archived from the original on 2011-07-26. आह्रियत 2009-12-05.
  3. ↑ सौरूर्जया २६ घण्टाः आकाशयात्राम् अकरोत् ‘इम्पल्स्’
  4. ↑ "प्रदूषणरहिता विमानयात्रा". Archived from the original on 2016-03-05. आह्रियत 2015-03-10.
  5. ↑ "First सोलर् इम्पल्स् द्वितीयस्य प्रप्रथम् उड्डयनम्". Sport Aviation: 14. July 2014.
"https://sa.wikipedia.org/w/index.php?title=सोलर्_इम्पल्स्&oldid=491995" इत्यस्माद् प्रतिप्राप्तम्