सामग्री पर जाएँ

सौरव्यूहः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सौरव्यूहस्य सदस्याः

सौरव्यूहस्य उद्भवः ५०० कोटिवर्षेभ्यः पूर्वं जातः इति विश्वासः आधुनिकानां विज्ञानिनाम् । तस्य कारणीभूता प्रक्रिया या काचित् भवतु नाम, सौरव्यूहस्य ग्रहाणां विषये निर्दिष्टा तथा क्रियाबद्धा काचित् व्यवस्था अस्ति ।

  1. सौरव्यूहस्य सर्वेऽपि ग्रहाः सूर्यं परितः एकस्याम् एव दिशि भ्रमन्ति । तेषां ग्रहाणां भ्रमणपथः अण्डाकारकः । ते च ग्रहाः एकस्मिन् एव समतले (Plane) परिभ्रमन्ति अपि । तेषां ग्रहाणां परितः ये उपग्रहाः परिभ्रमन्ति ते अपि एकस्यां दिशि एव परिभ्रमन्ति ।
  2. शुक्रग्रहं (Venus) तथा युरेनस्-ग्रहं च विहाय अन्ये सर्वेऽपि ग्रहाः स्व-अक्षं परितः यस्यां दिशि आवर्तनं प्राप्नुवन्ति तस्याम् एव दिशि सूर्यं परितः अपि भ्रमन्ति । उत्तरदिक्तः दक्षिणदिशि यदा पश्यामः तदा ते ग्रहाः अप्रदक्षिणाकारेण (Anti Clockwise) चलन्ति ।
  3. प्रतिग्रहं प्रति सूर्यतः विद्यमानं दूरं तस्य ग्रहस्य समीपस्थस्य ग्रहस्य (सूर्यस्य दिशि) अपेक्षया द्विगुणितं भवति ।
  4. समग्रस्य सौरव्यूहस्य द्रव्यराशौ ९९.९% भागः यद्यपि सूर्यस्य अस्ति तथापि तस्य कोनीयवेगस्य (Angular momentum) ९०% भागः ग्रहाणाम् अस्ति ।
  5. सौरव्यूहस्य ग्रहाः द्विधा विभक्तुं शक्यन्ते ।
पार्थिवाः ग्रहाः (Terrestrial Planets)
दैत्याः ग्रहाः (Giant Planets) च इति ।

बुधः (Mercury), शुक्रः (Venus), भूमिः (Earth), मङ्गलः (Mars) च प्रथमे पार्थिवानां ग्रहाणां गणे अन्तर्भवन्ति । एते ग्रहाः लघुगात्रकाः । एतेषां ग्रहाणां सान्द्रता अपि अधिका एव (प्रायः ४.० तः ५.५) ।
गुरुः (Jupiter), शनिः (Saturn), युरेनस्, नेप्चून् च द्वितीये दैत्यग्रहाणां गणे अन्तर्भवन्ति । एते ग्रहाः महागात्रकाः । तेषां सान्द्रता अपि अत्यन्तं न्यूना भवति (०.७ तः १.७) ।
अस्य गणद्वयस्य ग्रहान् काचित् एका पट्टिका पृथक्करोति । सा पट्टिका क्षुद्रग्रहमेखला (Asteroid Belt) इति उच्यते । भूमौ तथा चन्द्रे च विद्यमानानां शिलानां तथा व्योमतः तदा तदा पतताम् उल्कानाम् अध्ययनेन पार्थिवग्रहाः सामान्यतया अयः, आम्लजनकं, सिलिकान् तथा मेग्नेषियम् इत्यादिभिः धातुभिः रूपिताः सन्ति इति ज्ञातम् अस्ति । सूर्यः तु सम्पूर्णतया जलजनकेन (Hydrogen) तथा हीलियं मूलवस्तुना रूपितः अस्ति । अनेन एव संयोगेन गुरुः, शनिः, युरेनस्, नेप्चून्, ग्रहाः अपि रूपिताः स्युः इति उच्यते ।

आकाशकायानाम् उद्भवः

[सम्पादयतु]

आकाशकायानाम् उद्भवस्य विषयस्य आधुनिकानि गभीराणि चिन्तनानि क्रि. श. १७५५ वर्षाभ्यन्तरे आरब्धानि । अस्मिन् वर्षे (१७५५) प्रसिद्धः जर्मन् तत्त्वज्ञानी इम्यान्युयल् क्याण्ट् (Emmanuel Kant) इत्याख्यः कञ्चित् सिद्धान्तं प्रत्यपादयत् । स च सिद्धान्तः शुक्लपटलसिद्धान्तः (Nebular Hypothesis) इति उच्यते । तस्य सिद्धान्तस्य अनुसारम् – आकाशकायानाम् उद्भवात् पूर्वं व्योम्नि कश्चन अगाधः आकाशः उदभवत् । सः एव आकाशः तेन इम्यान्युयल् क्याण्टेन नेबुल (आकाशः) इति उक्तम् । कालक्रमेण मन्दं मन्दं तस्य आकाशस्य आवर्तनम् आरब्धम् । तस्य सान्द्रीकरणस्य परिणामतः “नेबुल” नामके शुक्लपटे अनेके निर्दिष्टाः कायाः उद्भूताः । तादृशेषु कायेषु भूमिः अपि अन्यतमा । सौरमण्डलस्य अन्ये ग्रहाः अपि अनेन एव क्रमेण रूपिताः इति प्रत्यपादयत् सः इम्यान्युयल् क्याण्ट् । तस्य इम्यान्युयल् क्याण्टस्य सः सिद्धान्तः सौरकायाणाम् आवर्तनस्य परिभ्रमणस्य क्रियाः व्यवस्थितरूपेण विवरीतुं समर्थः अभवत् ।

इम्यान्युयल् क्याण्टस्य अयं सिद्धान्तः यद्यपि बहुभिः अङ्गीकृतः तथापि तस्मिन् विद्यमानाः काश्चन न्यूनताः केषुचित् विज्ञानिषु अतृप्तिम् अजनयन् । ४० वर्षाणाम् अनन्तरं क्रि. श. १७९६ तमे वर्षे फ्रेञ्च् गणितज्ञः लाप्लास् इत्याख्यः अस्य इम्यान्युयल् क्याण्टस्य सिद्धान्तं किञ्चित् प्रमाणेन परिवर्त्य अन्यं कञ्चित् सिद्धान्तं प्रत्यपादयत् । किन्तु तदानीन्तने काले सिद्धानि बहूनि गणित–भौतिकसूत्राणि सः लाप्लास् स्वसिद्धान्ते समीचीनतया न उपयुक्तवान् इति कारणतः स्वसिद्धान्तस्य बह्व्यः न्यूनताः तेन न ज्ञाताः एव ।

इम्यान्युयल् क्याण्ट् तथा लाप्लास् इत्येतयोः द्वयोः सिद्धान्तस्य अनुसारं शुक्लपटे विद्यमानस्य आनिलस्य मूलद्रव्यराशिः शिथिलः सन् सङ्कुचनम् आरभत । तस्य परिणामरूपेण आवर्तनस्य वेगः (Speed of Rotation ) वर्धितः । तेन सञ्जातायाः केन्द्रापगामिशक्तेः (Centrifugal Force) प्रभावात् अनिलद्रव्यस्य तरङ्गाः केन्द्रस्य द्रव्यराशितः कालक्रमेण पृथक् जाताः । ते एव तरङ्गाः अन्ते इदानीन्तनानां ग्रहाणां रूपेण सान्द्रीकरणं प्राप्नुवन् । अनन्तरं प्रायः शतकस्य अनन्तरं (१०० वर्षाणाम् अनन्तरम्) ब्रिटिष् विज्ञानिनः सर् जेम्स् म्याक्वेल् तथा सर् जेम्स् जेन्स् इत्येतौ इम्यान्युयल् क्याण्ट् तथा लाप्लास् द्वयोः अपि सिद्धान्तं निराकृतवन्तौ । तयोः मतस्य अनुसारं इम्यान्युयल् क्याण्ट् तथा लाप्लास् इत्येताभ्यां प्रतिपादितः सिद्धान्तः कोनीयावेगस्य परिपालनस्य नियमम् (Law of Conservation of Angular Momentum) उल्लङ्घति ।

कोनीयः आवेगः

[सम्पादयतु]

एकं भारयुतम् अयसः कन्दुकं कस्मिंश्चित् दीर्घे दण्डे भाररहितेन सूत्रेण योजनीयम् । दण्डः आवर्तनक्रियां यदा आरभते तदा तेन दण्डेन सह अयसः कन्दुकम् अपि परिभ्रमति । तदा तेन कन्दुकेन यः वेगः प्राप्यते सः एव वेगः कोनीयः आवेगः इति उच्यते । कन्दुकस्य द्रव्यराशिः, तस्य वेगः तथा च आवर्तन-अक्षतः (तन्नाम दण्डतः) विद्यमानं दूरम् – एतेषां त्रयाणाम् अपि अंशानां गुणलब्धं कोनीयस्य आवेगस्य प्रमाणम् इति वक्तुं शक्यते । कन्दुकं दण्डस्य यावत् समीपे भवति तावत् आवर्तनक्रिया अधिका भवति । म्याक्सेवेल् तथा जेन्स् इत्येतयोः मतस्य अनुसारं शुक्लपटतः दूरं गतैः तरङ्गैः सान्द्रीकरणं प्राप्य पृथक् ग्रहत्वेन रूपं प्राप्तुम् या गुरुत्वशक्तिः आवश्यकी सा न प्राता । यतः तत्र गुरुत्वशक्तेः निर्माणार्थं पर्याप्तमात्रेण द्रव्यराशिः न आसीत् । चिकागोविश्वविद्यालयस्य खगोलविज्ञानी एफ्. आर्. मौल्टन् अपि इम्यान्युयल् क्याण्ट् तथा लाप्लास् इत्येतयोः सिद्धान्तं निराकृत्य आक्षिप्तवान् ।

पुर्वमेव यथा उक्तं तदनुगुणं सौरव्यूहस्य आवेगस्य ९९% भागः सूर्यं परितः परिभ्रमत्सु ग्रहेषु भवति । आवेगपरिपालननियमस्य अनुगुणम् आवर्तनं तथा सन्द्रीकरणं प्राप्यमाणं यत्किमपि वस्तु कोनीयावेगस्य प्रमाणस्य प्रमुखं भागं स्वस्मिन् एव केन्द्रीकरोति । किन्तु इदानीन्तनस्य सौरव्यूहस्य कोनीयावेगस्य अधिकः भागः इतरग्रहान् केन्द्रीकृतः अस्ति । अयं इम्यान्युयल् क्याण्ट् तथा लाप्लास् इत्येतयोः सिद्धान्तस्य विरुद्धं श्रुतः कश्चन प्रमुखः आक्षेपः ।

यमलतारासिद्धान्तः (Twin-Star Hypothesis)

[सम्पादयतु]

नवदशशतकतः आरभ्य अद्यपर्यन्तम् अपि भूमेः उद्भवस्य वा जन्मस्य वा विषये वैज्ञानिकाः जिज्ञासाः उद्भवन्त्यः एव सन्ति । चर्चा-परिचर्चाः अपि प्रचलन्त्यः एव सन्ति । हाय्ल् तथा लिटल् टन् नामकौ (Hoyle and Littleton) सद्यः एव अन्यं कञ्चित् सिद्धान्तं प्रतिपादितवन्तौ स्तः । स च सिद्धान्तः यमलतारासिद्धान्तः (Twin-Star Hypothesis) इति उच्यते । तस्य सिद्धान्तस्य अनुसारं भूमेः उद्भवतः पूर्वं यः सूर्यः आसीत् (आदिसूर्यः) (Primordial Inn) तस्य सूर्यस्य किञ्चन सहचरं नक्षत्रम् अपि आसीत् । तत् सूर्यस्य सहचरं नक्षत्रं कालान्तरे विच्छिद्रं सञ्जातम् । तस्य एव नक्षत्रस्य भागाः अद्य विद्यमानाः ग्रहाः इति उच्यमानाः । भूग्रहः अपि तथा निर्मितेषु ग्रहेषु अन्यतमः । ते सर्वे ग्रहाः अपि सूर्यं परितः परिभ्रमणं तदा एव आरब्धवन्तः । अस्य सिद्धान्तस्य साहाय्येन सूर्यस्य तथा इतरेषां ग्रहाणां विभिन्नस्य संयोजनस्य विवरणकरणं सुलभसाध्यं सञ्जातम् ।

महास्फोटसिद्धान्तः(Big Bang Theory/बिग्-ब्याङ्ग्)

[सम्पादयतु]

प्रख्यातः भौतशास्त्रज्ञः हेराल्ड् सि. यूरि (Harold C. Ury) खगोलविज्ञानिनां मूलपरिकल्पनाम् एव उपयुज्य भूमेः उद्भवस्य सिद्धान्तं समीचीनतया परिष्कृतवान् । तस्मात् कारणात् एव चन्द्रस्य भूमेः तथा इतरेषाम् आकाशकायानाम् उद्भवः पुनः रूपयियुं शक्यः अभवत् । स च सिद्धान्तः महास्फोटसिद्धान्तः (Big Bang Theory/बिग्-ब्याङ्ग्) इति उक्तः अस्ति । अस्य सिद्धान्तस्य अनुसारं किञ्चित् नक्षत्रं स्वस्मिन् विद्यमानायाः उष्णतायाः तथा निपीडनस्य कारणतः स्फोटितम् अभवत् । तस्मात् स्फोटात् किञ्चन नक्षत्रं दूरं गत्वा अपतत् । अस्य स्फोटस्य परिणामरूपेण सर्वत्र प्रसृतानाम् अनिलानां तथा धूलेः कश्चन मेघः निर्मितः जातः । स च मेघः आधिक्येन जलजनकेन (Hydrogen) किञ्चित् प्रमाणेन हीलियं (Helium) तथा अन्येः धातुभिः निर्मितः आसीत् । एतत् सर्वं व्योमे प्रसृतम् इति कारणात् आदिनक्षत्रस्य द्रव्यराशिः न्यूनः अभवत् । तस्मात् कारणात् तत् नक्षत्रं शीतलं जायमानम् आसीत् । अन्यानि शेषवस्तूनि संयोजककणानां परस्परं गुरुत्वाकर्षणात् एकत्रितानि अभवन् ।

एषः एव भूमेः उद्भवस्य कथायाः सारः । किन्तु अस्याः कथायाः एतदेव अन्त्यं न । विज्ञानस्य क्षेत्रे यथा यथा नूतनानि संशोधनानि सञ्जातानि तथा तथा नूतनाः अंशाः प्रकाशिताः अभवन् । तदा पुनः भूमेः उद्भवस्य कथा नूतनरीत्या पुनः आरप्स्यते ।

"https://sa.wikipedia.org/w/index.php?title=सौरव्यूहः&oldid=484520" इत्यस्माद् प्रतिप्राप्तम्