स्थाने हृषीकेश तव...
दिखावट
(स्थाने हृषीकेश - 11.36 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अर्जुन उवाच -
- स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।
- रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च रक्षांसि भीतानि दिशः द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥
अन्वयः
[सम्पादयतु]हृषीकेश ! तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च । रक्षांसि भीतानि दिशः द्रवन्ति । सर्वे सिद्धसङ्घाः च नमस्यन्ति इति स्थाने ।
शब्दार्थः
[सम्पादयतु]- हृषीकेश = इन्द्रियाधिप !
- तव प्रकीर्त्या = ते सङ्कीर्तनेन
- जगत् = भुवनम्
- प्रहृष्यति = सन्तुष्यति
- अनुरज्यते च = त्वयि अनुरक्तं च भवति
- रक्षांसि = राक्षसाः
- भीतानि = सभयाः
- दिशः = दिशाः
- द्रवन्ति = पलायन्ते
- सर्वे = सकलाः
- सिद्धसङ्घाः च = सिद्धसमुदायाः अपि
- नमस्यन्ति = प्रणमन्ति
- इति स्थाने = इत्येतत् समुचितम् ।
अर्थः
[सम्पादयतु]कृष्ण ! तव सङ्कीर्तनेन जगत् सन्तुष्यति त्वयि अनुरक्तं च भवति । राक्षसाः भीताः सन्तः दिशः पलायन्ते । सर्वे सिद्धसमुदायाः अपि प्रणमन्ति इत्येतत् सर्वं युक्तम् ।