स्वरसन्धिः
स्वरसन्धेः पञ्च प्रकाराः सन्ति। संस्कृतव्याकरणे महर्षिपाणिनेः 'अष्टाध्यायी' ग्रन्थस्य अतीव महत्वम् अस्ति। अस्मिन् ग्रन्थे प्रथमे अध्याये संहिता अथवा सन्धिसंज्ञा " परः सन्निकर्षः संहिता।१।४।१०९।।" इति सूत्रेण स्पष्टिकृतम् अस्ति।
१] दीर्घसन्धि:
[सम्पादयतु]अकः सवर्णे दीर्घ:।६।१।१०१।। सूत्रेण दीर्घसन्धिः भवति। अक् प्रत्याहारस्थ अ,इ,उ,ऋ,लृ वर्णानां पुरतः तेषाम् एव सवर्णः[१] आगच्छति तदा तत्र पूर्वपरयोः स्थाने एकं सवर्णदीर्घादेशः भवति।
१. अ/आ+अ/आ=आ | हिम+अद्रिः=हिमद्रिः
२.इ/ई+इ/ई=ई | श्री+ईशः=श्रीशः
२.उ/ऊ+उ/ऊ=ऊ | विष्णु+उदयः=विष्णूदयः
४.ऋ/ॠ+ऋ/ॠ=ॠ | होतृ+ऋकारः=होतॄकारः
२] गुणसन्धि:
[सम्पादयतु]आद् गुणः६।१।८७।। सूत्रेण गुणसन्धिः भवति। यदा ‘अ’ वर्णस्य पुरतः अन्य स्वरः आगच्छति तदा तत्र द्वयोः स्थाने गुणदेशः करणीय:।
१.गण+ईशः=गणेशः।
२.शुद्ध+उदकः= शुद्धोदकः।
३]वृद्धिसन्धि:
[सम्पादयतु]वृद्धिरेचि ६।१।८८।।सूत्रेण वृद्धिसन्धि: भवति। यत्र अ, आ पुरतः एच् प्रत्याहारस्थ ए,ओ,ऐ,औ वर्णाः इति स्थितौ तत्र उभयोः वर्णयोः स्थाने वृद्धिरेकादेशः स्यात्।
१.कृष्ण+एकत्वम्=कृष्णैकत्वम्
२.गङ्गा+ओघः=गङ्गौघः
३.देव+ऐश्वर्यम्=देवैश्वर्यम्
४.कृष्ण+औत्कण्ठ्यम्=कृष्णौत्कण्ठ्यम्
४] यणसन्धिः
[सम्पादयतु]इको यणचि।६।१।७७।। सूत्रेण यदा इक् प्रत्याहारस्थ इ,उ,ऋ,लृ वर्णनां पुरतः अन्य: स्वरः आगच्छति तदा तत्र इकः(इ,उ,ऋ,लृ) स्थाने य्,व्,र्,ल् इति यणादेशाः भवन्ति।
१.इति+आदि+इत्यादि
२.सु+आगतम्=स्वागतम्
३.धातृ+अंशः=धात्त्रंशः
४.लृ+आकृति=लाकृति:
५] अयादिसन्धिः
[सम्पादयतु]एचोयवायावः।६।१।१८।। इति सूत्रेण अयादिसन्धिः भवति। यदा एचः पुरतः अन्यस्वरवर्णः
आगच्छति तदा तत्र ए,ओ,ऐ,औ वर्णयोः स्थाने क्रमेण अय्, अव्, आय्, आव् एते आदेशाः स्युः।
१.हरे+ए=हरये
२.विष्णो+ए=विष्णवे
३.नै+अकः=नायकः
४.पौ+अकः=पावकः
एतावत् षष्ठमे अध्याये आगतानि स्वरसन्धेः विधिसूत्राणि ।