हरितगृहम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Victoria amazonica (giant Amazon water lily) at the Saint Petersburg Botanical Garden, Russia.

हरितगृहम् इति एकः परिभाषिकः शब्दः अस्ति । यस्य तात्पर्यं भवति वाटिकायां स्थितं तत्गृहं यत् काचनिर्मितं भवति । अस्मिन् गृहे तादृशाः पादपाः वर्धन्ते येभ्यः अधिकतापस्यावश्यकता भवति । हरितगृहस्य प्रभावः पृथिव्यां निरन्तरवर्धमानस्याः (तापस्य) ऊष्मायाः समस्या वर्तते । यतोहि सूर्योष्मा पृथिव्यां स्वीक्रियते परं तस्या सम्यक्-प्रत्यावर्तनं न भवति । फलतः सा ऊष्मा वायुमण्डले एव निवसति । वस्तुतः इङ्गालामः-स्मोग- मिथेन-जलबाष्पः च मिलित्वा, तस्यावरणस्य निर्माणं वायुमण्डले कुर्वन्ति । सूर्यकिरणेन सह समागतोष्मा इममावरणं विच्छिद्य पृथिव्यामागच्छति, परं तापविकारणस्य प्रत्यावर्तनं यदा भवति तदा आवरणस्य शोषणं करोति । फलतः सा उष्मा सर्वदा वायुमण्डले निवसति । इदमेव कारणं भवति यत् जगति उष्णतायाः प्रतिदिनं वृध्दिः भवति । उष्णतावृध्द्या महासागरेषु जलवृध्दिः भवति । तटीयद्वीपाः जलमग्नाः भविष्यन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हरितगृहम्&oldid=481130" इत्यस्माद् प्रतिप्राप्तम्