हरिशंकरमन्दिरम्
बलाङ्गिरमण्डलस्य पाटनागढ-उपमण्डले गन्धमार्दनपर्वतस्य पाददेशे स्थितं हरिशंकरशैवपीठं प्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धम् अस्ति । सदरमहकुमातः अस्य दूरं प्रायः ८० कि.मी भविष्यति । गन्धमार्दनपर्वतस्य उत्तरभागे प्रसिद्धस्य बरगडमण्डले नरसिंघनाथमन्दिरं, दक्षिणे तु हरिशंकरमन्दिरं विराजमानमस्ति । [१] अयं पीठः अद्वितीयः अतः अस्मिन् पीठे हरिः शङ्करः च मिलित्वा पूजितौ स्तः। हरिशंकरमन्दिरस्य नरसिंहनाथमन्दिरस्य च मध्ये स्थिते पठारस्थे बौद्धधर्मलम्बिना निर्मितं प्राचीनं परिमलगिरिविश्वविद्यालयं भग्नावशेषरूपेण विद्यते । [२]
इतिहास:
[सम्पादयतु]१४ शतके पश्चिमोडिशाप्रदेशस्य चौहानवंशस्य राजा हरीशंकरस्य प्रतिमाया: विषये सूचना आसीत् । ततः परं तस्मिन् स्थाने भगवत: हरिशंकरस्य पूजा प्रचल्यमान: अस्ति । १२ शताब्द्याः आरम्भस्य इति मन्यमानस्य नर्तकस्य गणेशस्य चित्रम् अपि प्राप्तम् । तदनन्तरं महाराजविजलदेवचौहानस्य पत्न्याः दुर्लभादेव्या: आज्ञानुसारं तस्मिन् स्थाने मन्दिरस्य निर्माणं जातम् । अस्य मन्दिरस्य आकर्षकविन्यासस्य, उत्तमनिर्माणशैल्याः च कारणेन अनेकेषां ध्यानम् आकृष्टं करोति । अस्य मन्दिरस्य निर्माणशैली ओडिशाप्रदेशस्य अन्येभ्यः मन्दिरेभ्यः किञ्चित् भिन्नमस्ति । [३]
प्रथमं यमुना नाम्नि कन्ध महिला हरिशङ्करस्य दर्शनं कृतवती । अत्र उपासकाः कन्ध-जनजातीयसमुदायस्य सन्ति । अत्र आदिवासीसंस्कृतेः अनुसारं पूजा क्रियते। बैसाखमासे नरसिंहचतुर्दशी हरि-शङ्करस्य मुख्योत्सवः परिपालनं कृयते । तस्मिन् दिने सायंकाले गन्धमार्दनपर्वतसङ्गृहीतं पिटकन्दाप्रसदरुपेण स्वीकृयन्ते। अन्येषु दिनेषु स्थानीयफलानि प्रसदरुपेण आनयन्ति।
अवस्थितस्थानम्
[सम्पादयतु]हरिशंकरमन्दिरं बलाङ्गिरमण्डलमुख्यालयात् प्रायः ८० कि.मी दूरे अस्ति । रेलमार्गेण हरिशकर मार्गस्थानात् ३२ कि.मी दूरे अस्ति । इदं मन्दिरं दक्षिणदिशि बलाङ्गिरसम्बलपुरयोर्मण्डलयोर्मध्ये स्थितस्य गमार्दन - पर्वतस्य पादस्थाने स्थितम् अस्ति | [३] भगवान् शङ्करविष्णुयोः प्रादुर्भावानन्तरं तेषां जुगलमूर्तेः कारणात् अस्य स्थानस्य नाम हरिशंकरम् इति कथ्यते । [३]
अस्य मन्दिरस्य समीपे गन्धमार्दनपर्वतात् निर्गता एका धारा अस्ति । आख्यायिकानुसारं यदा कश्चित् तस्मिन् स्थाने किमपि खनति स्म तदा पर्वतात् जलस्रोतः निर्मीयते स्म, सः जलस्रोतः धारारूपं गृह्णाति स्म । [३]
एकस्मिन् समये धाराया: जलं शिलाखण्डशय्यायाः उपरि प्रवहति । अस्य शिलाशय्यायाः स्थानीयजनाः 'Solden rock' इति उच्यन्ते । अयं शिलाशय्या अतीव स्निग्धः अस्ति । पर्यटनस्थलस्य केन्द्रं च अस्ति । तरणस्य जलक्रीडायाः च सर्वविधाः सुविधाः सन्ति ।
पर्वाणि
[सम्पादयतु]- एकादशी एवं संक्रान्ति
- शिवरात्रि
- माकर संक्रांति
- चन्द्र मेला
हरिशंकरमन्दिरे दिवसे १२:३० त: ३:०० भक्तानां भोजनं प्रतिदिनम् अस्ति। अत्र भोजनार्थं प्रातःकाले पञ्जीकरणं कर्तव्यम् ।
फोटो गैलरी
[सम्पादयतु]-
हरिशङ्करे स्थिता धारा ।
-
हरिशङ्करे स्थिता धारा ।
-
मुख्यमन्दिरम्
-
धारायां गन्तुं ध्रुवः
-
मन्दिरपरिसरे अवस्थितं हनुमानमन्दिरम्
-
हरीशंकरमन्दिरस्य मुख्यद्वारम्
-
मुख्यमन्दिरस्य प्रवेशद्वारम्
आधार:
[सम्पादयतु]- ↑ "orissa tourism-Harishankar". orissadiary.com. Archived from the original on 16 October 2012. आह्रियत 9 January 2013. "on its opposite is the temple of Nrusinghanath."
- ↑ "Harishankar Temple, Bolangiri". Incredible Odisha. आह्रियत 19 October 2016.
- ↑ ३.० ३.१ ३.२ ३.३ "Tourist Places In Balangir / Bolangir, Odisha ( Orissa )". Nua Odisha/ Odisha Tourism. आह्रियत 19 October 2016. उद्धरणे दोषः :
<ref>
अमान्य टैग है; "NuaTrsm" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है