हरिहररायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हरिहररायः
विजयनगरसाम्रज्यसंस्थापकः
पूर्ववर्ती तृतीयः वीरबल्लाळः
उत्तराधिकारी बुक्करायः प्रथमः
पिता भावनः
जन्म 1336 वर्षे
मृत्युः 1356 (aged 19–20)

हरिहररायः प्रथमः (1336–1356), अन्यता वीरहरिहररायः अन्यता हक्कः, विजयनगरसाम्रज्यसंस्थापकः.[१] भावनसंगमस्य प्रथमपुत्रः, संगमवंशस्य प्रथमराजा। संगमवंशः विजयनगरसाम्राज्यस्य प्रथमराजवंशः आसीत्।

भ्रात्रोः हक्कभुक्कयोः आरंभकजीवनकालम् संदेहास्पदम्। तृतीयहोयसलबल्लाळस्य भ्रात्रीयः बल्लपदंडनायकः हरिहरस्य पुत्रीम् परिणयति स्म, येन हरिहरस्य होयसलेन संबंधम् प्रकटायति। [२]

अधिकारम् लब्ध्वा, झटिति बर्कुरुनगरे दुर्गम् अनिर्मापयत्। अभिलेखद्वारा प्रकटायति तत् 1339 वर्षे हरिहरः गुत्तिनगरे सर्वकारद्वारा उत्तरकर्णाटकभागम् अपालयत्।

होयसलसाम्राज्यस्य उत्तरभागम् राजकालस्य पुरस्तात् पालयित्वा, 1343 वर्षे वीरबल्लाळस्य निधनान्तरम् समग्र राज्यम् अपालयत्। कन्नडभाषायाः अभिलेखाः हरिहराय कर्णाटकविद्याविलासः, विप्रलापनायकदंडकर्ता (भाषेगेतप्पुवरायगन्द), शत्रुराजननलः (अरिरायविभाद) इति उपाधीन् अददात्। कम्पनः मुद्दप्पः मारप्पः च हरिहरस्य भ्रातरः यथाक्रमम् नेल्लूरु, मूलबगलु, चन्द्रगुत्ति च क्षत्राणि अपालयन्, एवं भ्राता बुक्करायः हरिहरस्य उपनायकः।

पुरस्तात् तुंगभद्रनद्याः दरीक्षेत्रम् अजयत, तदनन्तरम् कोंकन मलबार क्षेत्रे अपि नियन्त्रणे आनीतवान्। मदुरैसुल्तानेन संग्रामे तृतीयवीरबल्लाळः वीरगतिम् अलभत्, ततः हरिहरः होयसलक्षेत्राणि स्वराज्ये आनीतवान्।

1346 वर्षे स्रिंगेरिमठाय उपकारस्य विषये अभिलेखे हरिहरः “पूर्वपश्चिमसमुद्रमध्ये क्षेत्रस्य राजा” इति भाषते स्म एवमेव “विद्यानगर” इति राजधानी अप्रकाटयत्। हरिहरः राज्यस्य अधिकारस्य केन्द्रिय़णम् असाध्यत् एवं कुशलप्रशासनद्वारा प्रजायै शान्तिं समृद्धिम् सुरक्षाम् च अप्रददात्।

हरिहरस्य निधनान्तरम् अनुजभ्राता बुक्कः संगमवंशश्रेष्टराजा अभवत्।

प्रवृत्तयः[सम्पादयतु]

  1. Sen, Sailendra (2013). A Textbook of Medieval Indian History. Primus Books. pp. 103–106. ISBN 978-9-38060-734-4. 
  2. https://www.karnataka.gov.in/gazetteer/GazetteerMandya2009/Chapter-2.pdf
  • Dr. Suryanath U. Kamat, Concise history of Karnataka, MCC, Bangalore, 2001 (Reprinted 2002)
  • Chopra, P.N. T.K. Ravindran and N. Subrahmaniam.History of South India. S. Chand, 2003. ISBN 81-219-0153-7


"https://sa.wikipedia.org/w/index.php?title=हरिहररायः&oldid=387391" इत्यस्माद् प्रतिप्राप्तम्