हल्दीघाटी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हल्दीघाटी
हल्दीघाटी
हल्दीघाटी
हल्दीघाटी
हल्दीघाटी
हल्दीघाटी

हल्दीघाटी स्थानम् ऐतिहासिकस्थानम् अस्ति । हल्दीघाटी काचित् उपत्यका अस्ति । एतत् ग्रीस्देशस्य धर्मापिळे सदृशमिति वदन्ति । ग्रीसदेशस्य धर्मापिळेनगरस्य शतशः सैनिकाः आक्रमणं कर्तुम् आगताः आसन् । तान् निवारयितुं स्पार्टानगरस्य प्रमुखः लियोनिडास् (त्रिशतसैनिकानां मुख्यः आसीत्) युद्धं कृतवान् । सर्वे सैनिकाः हताः अनन्तर पर्शियन्सैनिकाः अग्रे गतवन्तः । एषा घटना ग्रीस्देशस्य इतिहासे एव महत्वपूर्णः अध्यायः अभवत् ।

एवमेव हल्दीघाटीप्रदेशे असङ्ख्यान् मोगलसैनिकान् राणाप्रतापसिंहः निवारितवान् । सः स्वयं 'चेतकः' नामकम् अश्वमारुह्य युद्धं कृतवान् । किन्तु अकबरः विजयशाली अभवत् । राणाप्रतापसिंहः अरण्यं गत्वा आत्मरक्षणं कृतवान् । क्रिस्ताब्दे १५७६ तमे वर्षे एषा घटना अभवत् । पुनः राणाप्रतापसिंहः सैन्यं सङ्गृह्य युद्धं कृत्वा चित्तौड्प्रदेशं विहाय अन्यप्रदेशानाम् अधिकारं प्राप्तवान् । तस्य अश्वः ‘चेतकः’ अत्रैव मृतः अभवत् । एवं एतत् हल्दीघाटीस्थानं ख्यातं रणभूमिस्थानमिति इतिहासद्वारा ज्ञातुं शक्यते । हल्दीघाटीप्रदेशः स्वाभिमानद्योतकः साहसकार्यस्य च स्मारकः अस्ति । भारतीयानां देशाभिमानिनाम् एतत् पवित्रं स्थानम् अस्ति । अत्र समीपे एव ‘चेतकस्य’ स्मारकं निर्मितम् अस्ति ।

राणाप्रतापसिंहः धीरः शूरः अभिमानी च आसीत् । तस्य अश्वः अपि सुप्रसिद्धः आसीत् । अतः एव देहलीतः उदयपुरं प्रति यत् धूमशकटयानम् आगच्छति तस्य चेतक-एक्सप्रेस् इति नाम दत्तम् अस्ति । एषः मार्गः ७३९ कि.मी दीर्घः अस्ति ।

राजपुत्रेषु अनेके वीराः साहसकार्याणि कृतवन्तः तेषु राणाप्रतापः अद्वितीयः आसीत् । एतत् स्थलम् उदयपुरतः ४० कि.मी दूरे अस्ति ।ss

"https://sa.wikipedia.org/w/index.php?title=हल्दीघाटी&oldid=461530" इत्यस्माद् प्रतिप्राप्तम्