हल्मिडि शिलाभिलेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कन्नडभाषायां समुपलब्धेषु शिलाशासनेषु हल्मिडिशासनमेव प्राचीनतमं शासनम् । प्रथमं शासनं च इति निर्णयः एतावत्पर्यन्त मासीत् । तस्य शासनस्य कालः क्रि श ४५० शतमानः । परमधुना तस्मादपि प्राचीनं पुरातनं शिला शासनमेकं कर्णाटक राज्यस्य श्रवणबेळगोळ जैनक्षेत्रस्य चन्द्रगिरिशैले समुपलब्धम् । अस्य समयः क्रि श ४०० शतमानः । मैसूरुविश्वविद्यानिलयस्य कन्नड प्राध्यापकः डा एम्जि मञ्जुनाथः एतत्प्राचीनं शिला शासनमन्विष्टवान् । तद्विवरणमपि तेनैव प्रदत्तमस्ति । अस्मिन् शिला शासने प्राकृ तसंस्कृ तप्राचीन कन्नडपदानि वर्तन्ते । हल्मिडि शासने प्राकृ तशब्दाः न दृश्यन्ते । प्राकृ तभाषा संस्कृ तभाषायाः पूर्वक ालीना लिपिशैलीदृष्ट्या च चन्द्रगिरिशैले गिरितलदा मेलति के ळगे मानदान् तीरदाणमा के ळिया नेलदिमानदान् । सद्दम्मदा गेळु ससानदिपतान् अस्य विवरणमेवमस्ति । स्वस्ति श्रीगुणभूषित निसिदिं उळाडः निर्मापयामास । श्रवणबेळगोळ शैलस्य उपन्यक ायां स्थितः नृपः उळाडः सद्धर्म परिपालकः आसीत् । सद्गुराः शिष्यः अभूत् । सन्द्वर्गगणवंशे समुत्पन्नः एषः । एषः राजा श्रवणबेळगोळशैलस्य उपरि गुणभूषित निसिदिं निर्मापयामास इति वर्तते । हल्मिडिशासनं तु क्रि श ४५० शतमाने रचितम् । क दम्ब वंशस्य राज्ञः श्री काकुत्सवर्मणः शासनसमये एतद्विरचितमस्ति । अस्मिन् शासने १६ षङ्क्त यः विद्यन्ते । अत्र संस्कृ तभाषा पदानि प्राक्क न्नडपदानि दृश्यन्ते । अस्मिन् हल्मिडिशासने २५ कन्नडपदानि सन्ति । इत्यमुंशं १९३६ तमे वर्षे समुपल्ब्धं शिलाशासनं हल्मिडि शासनादपि प्राचीनतममिति वक्तुं शक्यते । शासनं चतसृषु पङ्िक्त षु उपलब्धमस्ति । गुणभूषितनिसिदि शासनमिति नामस्य गुणभूषितमुनेः निसिदिशासने के वलं षट् क न्नडपदानि दृश्यन्ते । फङ्कदम्मःफङ्ख फङ्कससानुफङ्ख फङ्कनिसिदिफङ्ख इति त्रीणि प्राकृ तपदानि सन्ति । अवशिष्टभागे संस्कृ तपदानि अधिक ानि वर्तन्ते । अस्य शासनस्य लिपि शातवाहना ब्राह्मीलिपिरिव (त्रिकोनाकार शीर्षक रेष्वैन) आदिगगांनां लिपिरिव (ह्रस्वरेखाशीर्षक मिव) दृश्यते । शासने स्थितः विषयः अयम् चतसृषु पङ्िक्त षु समुपलब्धस्य गुणभूषितशासनस्य सारांशोऽयम् १ स्वस्ति श्री गुणभूषितमादि उळाडग्दे रिसिदा निसिदिगे २ सद्दम्म गुरुसन्तानान् सन्द्दिगगण तानयान् । डा एम्एच् कृ ष्णय्यः प्रक टितवान् आसीत् । अधुना डा मञ्जुनाथेन प्रक टितं गुणभूषित शासनविवरणं चर्चास्पदमस्ति । एतत्तु हल्मिडिशासनादपि प्राचीनमिति ज्ञायते । परं विद्वांसः यदि विचारयेयुः तदा अधिकाः वास्तविक विषयाः संज्ञायन्ते । अतः शासनविदः शासनसंशोधकाः शासनान्वेषकाः विद्वांसः सम्यक् परिशीलयेयुः । एतावत्पर्यन्तमपि एते विषयमिमं नैव चर्चितवन्तः इति तु आश्चर्यजनक मिति क न्नडविद्वान् संशोधकः डा एम्एच् कृ ष्णय्यः अभिप्रैति ।

सन्दर्भ:[सम्पादयतु]

  1. en.wikipedia.org/wiki/Kannada_inscriptions‎
  2. http://www.classicalkannada.org/DataBase/KannwordHTMLS/CLASSICAL%20KANNADA%20INSCRIPTIONS%20HTML/HALMIDI%20INSCRIPTION%20HTML.htm Archived २०१३-०५-०६ at the Wayback Machine

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हल्मिडि_शिलाभिलेखः&oldid=481137" इत्यस्माद् प्रतिप्राप्तम्