हास्यरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Eduard von Grützner Falstaff.jpg

हास्यस्य हासः स्थायिभावो भवति । अतिविकृतानां नटादीनामाकाराऽऽलापचेष्टितादीनां दर्शनादिभिर्जायमानो मनोविकासो हासः । वागङ्गादिविकारदर्शनजन्माविकासाख्यो हासः इति रसगङ्गाधरे वर्णितम्। हसे धातुना उत्पन्नं हासनम् इति पदम् । न्यत् प्रत्ययस्य योगात् "हास्य(म्)” पदम् उत्पन्नम् अस्ति। हास्यरसस्य विषये साहित्यदर्पणकारस्य अभिप्रायः एवम् अस्ति,
विकृताकारवाग्वेषचेश्टादेः कुहकाद् भवेत्।
हास्यो हासस्थायिभावः श्वेतः प्रमथदैवतः॥
भरतमुनिः स्वनाट्यशास्त्रे "हास्योनाम हासस्थायिभावात्मकः” इत्युक्त्वा, द्विविधश्चायम् आत्मस्थः परस्थश्च। यदा स्वयं हसति तदा आत्मस्थः, यदा तु परं हासयति तदा परस्थः” इति, निरूपितवान् अस्ति। विदूषकः नाटके स्वयं हस्ति तर्हि आत्मस्थः इति। राज्ञीनां हासनावसरे परस्थः इति अभिनवगुप्तः स्वव्याख्याने निरूपितवान् अस्ति। वेषालङ्कारवाग्गमनादीनां विकारेण, व्यत्यासेनच हासस्थायिभावः उत्पाद्यते। समनन्तरं हास्यरसोत्पत्तिः सम्भविष्यति।

प्रकाराः[सम्पादयतु]

हास्यत्रिविधं भवति।

  • उत्तमः
  • मध्यमः
  • अधमः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हास्यरसः&oldid=409885" इत्यस्माद् पुनः प्राप्तिः