हिरण्णय्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कन्नडवृत्तिनाटकरङ्गस्य प्रमुखेषु श्री.के.हिरण्णय्यमहोदयः (K. Hirannayya) अन्यतमः । हिरण्णय्यमहोदयस्य १९०५ तमे वर्षे बेङ्गळूरुनगरे जन्म अभवत्। तस्य पिता श्री अनन्तरामय्यः, माता श्रीमती लक्ष्मीदेवम्मा । सः स्वस्य सप्तमकक्ष्यायाः विद्याभ्यासानन्तरं नाटकरङ्गं प्रविष्टवान् । नाटकरङ्गे कायेन,वाचा,मनसा कलासेवां कृत्वा कृतार्थः अभवत् । श्रीहिरण्णय्यः विशिष्टः हास्यनटः सः समाजस्य न्यूनतानां विवरणं कर्तुं विशिष्टं व्यङ्ग्यपूर्णं सम्भाषणं करोति स्म । कौशलपूर्वकसम्भाषणे, सहास्यं कथनशैल्यां च निस्सीमः । तस्य स्वारस्यपूर्णं सम्भाषणं श्रुत्वा जनाः स्मारं स्मारं हसन्ति स्म । देवदासी नामकं सामाजिकनाटकं हिरण्णय्येन रचितेषु नाटकेषु प्रथमम् । विरलेषु सामाजिकनाटकेषु अन्यतमं देवदासी नाटकं क्रान्तीकारि अभवत् । अस्मिन् नाटके हिरण्णय्यमहोदयस्य नाजूकरायस्य पात्रम् अस्ति । तस्य विनोदवाचालपूर्णसम्भाषणं श्रुत्वा यः कदापि न हसति तादृशः अपि हसति स्म। तस्य प्रसिद्ध्यर्थं नाजूकय्यस्य पात्रं कारणीभूतम् अभवत् इति तु सत्यम् । मित्रैः सः‘ हिरण्णययमित्रमण्डली ’ इति वृत्तिनाटकसंस्थां स्थापितवान् । तस्य संस्था यशस्विनी अभवत् । १९४१ तमे वर्षे मित्राणां साहाय्येन 'वाणी’इति कन्नडचलनचित्रं निर्माय तत्र अभिनयं कृतवान् । श्री.के. हिरण्णययमहोदयस्य अनेके अभिमानिनः आसन् । ते 'कल्चर्ड कमेडियन्’ बिरुदं दत्त्वा सम्मनितवन्तः अपि । बहुमुखप्रतिभावन्वितः अद्भुतकलाकारः श्रीयुतहिरण्णययमहोदयः १९५३ तमे वर्षे द्विवङ्गतः तदा तस्य वयः ४८ आसीत् । श्री हिरण्णय्यमहोदयस्य एकमात्रं पुत्रः श्री नरसिंहमूर्तिः । अद्यावधि नाटकरङ्गे पितुः अपेक्षया सुप्रसिद्धः हास्यब्रह्मा, नटरत्नाकरः मास्टर् हिरण्णय्यः एव नरसिंहमूर्तिः । पित्रार्जितां नाटकसंस्थां नरसिंहमूर्तिमहोदयः एव इदानीं चालयति ।

"https://sa.wikipedia.org/w/index.php?title=हिरण्णय्यः&oldid=389193" इत्यस्माद् प्रतिप्राप्तम्