हिरोशिमा शान्तिस्मारकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
हिरोशिमा शान्तिस्मारकम्
गेन्बाकु डोम
शान्तिस्तूपः
शान्तिस्तूपः
स्थापना 1996 (1996)
स्थानम् हिरोशिमा, जपान
प्रकारः विनाशकशक्तेः (अणुशक्तेः) आघातोत्तरम् अपि अतिष्ठत्, मानवजातौ जातः प्रप्रथमः अणुप्रहारः, शान्तेः प्रतिनिधिः [१]
जालस्थानम् http://whc.unesco.org/en/list/775

हिरोशिमा शान्तिस्मारकम् ( /ˈhɪrʃɪmɑː ʃɑːntɪsmɑːrəkəm/) (हिन्दी: हिरोशिमा शान्तिस्मारक, आङ्ग्ल: Hiroshima peace memorial) उत अणुविस्फोटस्तूपः उत 'गेन्बाकु डोम' जपान-देशस्य हिरोशिमा-महानगरे स्थितस्य प्रख्यातशान्तिस्मारकस्य उद्यानभागोऽस्ति । १९९६ तमे वर्षे एतत् स्मारकं युनेस्को-संस्थया विश्वसम्पत्त्वेन घोषितम् । १९४५ तमस्य वर्षस्य अगस्त-मासस्य षष्ठे दिनाङ्के हिरोशिमा, नागाशाकी इत्यतयोः नगरयोः अणुविस्फोटकप्रहारेण मृतानां जनानां स्मारकत्वेन एतस्य भवनस्य संरक्षणं कृतम् अस्ति । तस्मिन् अणुविस्फोटकप्रहारे ७०,००० नागरिकाः मृताः, प्रहारोत्तरञ्च किरणोत्तसारस्य कारणेन अन्ये ७०,००० नागरिकाः प्राणघातकरोगेण ग्रस्ताः [२]

इतिहासः[सम्पादयतु]

उत्पादनप्रदर्शनखण्डस्य (Product Exhibition Hall) मूलरचनायाः परिकल्पकः चेक-वास्तुशास्त्री जन लेट्झेल इत्येषः आसीत् । चेक-रचनानुगुणम् एतस्य भवनस्य सर्वोच्चे स्थाने विशालस्तूपस्य स्थापना कृता आसीत् । एतस्य भवनस्य निर्माणकार्यं १९१५ तमस्य वर्षस्य अप्रैल-मासे पूर्णम् अभवत् । "हिरोशिमा प्रीफेक्ट्रल कमर्शीय अक्झेबिशन" (HMI) इति निर्माणोत्तरं तद्भवनस्य नामकरणम् अभवत् [२]। तस्मिन्नेव वर्षे अगस्त-मासे सामान्यनागरिकेभ्यः उद्घाटितम् । १९२१ तमे वर्षे तस्य भवनस्य नाम परिवर्त्य "हिरोशिमा प्रीफेक्ट्रल प्रोडक्ट्स् एक्झिबिशन् हॉल्" इति अभवत् । १९३३ तमे वर्षे पुनः तस्य भवनस्य नवीननामकरणं "हिरोशिमा प्रीफेक्ट्रल इन्डस्ट्रेयल् प्रोमोशनल् हॉल्" इति कृतम् । एतस्य भवनस्य समीपे आईओई इत्याख्यः सेतुः आसीत्, यस्योपयोगः कलायाः, सांस्कृतिककार्यक्रमाणां च प्रदर्शने भवति स्म [३]

अणुविस्फोटस्थानस्य समीपे एकमात्रम् एतद्भवनम् एव अवशिष्टम् आसीत् [१] । एतस्य भवनस्य स्तूपान्तर्भागः प्रत्यक्षतया दर्शने सति सः स्तूपः विस्फोटकाकारवत् दरीदृश्यते स्म । अतः तस्य भवनस्य नाम 'गेन्बाकु' अर्थात् अग्निगोलकः (A bomb) इति अभवत् । विस्फोटोत्तरं तस्य भवनस्य पातनकार्यं सर्वकारेण आरब्धम् । परन्तु तस्य भवनस्य विशालभागः अणुविस्फोटके सत्यपि सुरक्षितः आसीत् । अतः तस्य भवनस्य पातनकार्याय विलम्बः अभवत् । तस्मिन् कालखण्डे सः स्तूपः विवादकेन्द्रम् अपि अभवत् । किञ्च केचन नागरिकाः तस्य स्तूपस्य पतनम् इच्छन्ति स्म परन्तु अन्ये अणुविस्फोटस्य स्मारकत्वेन तस्य स्तूपस्य रक्षणम् इच्छन्ति स्म [४] । अन्ततो गत्वा हिरोशिमा-नगरस्य पुनर्निर्माणस्य आरम्भोत्तरं "तत् भवनं रक्षणीयम्" इति निर्णयः अभवत् [१]

१९५०-१९६४ मध्ये एतद्भवनं परितः हिरोशिमा-शान्त्युद्यानस्य निर्माणम् अभवत् । १९६६ तमे वर्षे हिरोशिमा-नगरस्य शासनतन्त्रेण उद्घोषितं यत्, एतस्य भवनस्य संरक्षणं करिष्यामः तथा च तद्भवनस्य नाम इतः परं "हिरोशिमा-शान्तिस्मारकम्" (गेन्बाकु डोम) इति भविष्यति । सः स्तूपः उद्यानस्य प्रमुखं सीमिचिह्नम् अस्ति [१]

१९४५ तमे वर्षे कर्षितम् एतच्छायाचित्रम्[५]

अणुप्रहारः[सम्पादयतु]

१९४५ तमस्य वर्षस्य जुलाई-मासस्य पञ्चविंशतितमे दिनाङ्के प्रशान्तक्षेत्रे नियुक्तः अमेरिका-देशीयः व्यूहात्मकवायुसेनाध्यक्षः कार्ल स्पार्ट्झ इत्येषः जपान-देशस्य मुख्यनगरेषु 'विशिष्टविस्फोटकक्षेपणस्य' आदेशं प्रापत् ।[६] । विस्फोटकस्य घाताय प्रथमस्थलत्वेन हिरोशिमा-नगरस्य चयनम् अभवत् । यतः तन्नगरं दक्षिणे स्थितस्य होन्शी-द्वीपस्य बृहत्तमं नगरम् आसीत् । तन्नगरे जपान-देशस्य उपसेनाध्यक्षस्य कार्यालयः आसीत् । तस्मिन् कार्यालये ४०,००० सैनिकाः अपि आसन् [६]

सः अणुस्फोटकः अतीव गुप्ततया निर्मितः आसीत् । तस्मिन् स्फोटके 'युरेनियम्' इत्याख्यस्य पदार्थस्य २३५ वल्लर्यः आसन् । तासु वल्लरीषु शतशः किलो 'सिसा' इत्याख्यः धातुः पूर्णः आसीत् । एवम् अणुविस्फोटकस्य शक्तिः १२,५०० टन् टी. एन. टी. यावत् अभवत् । १९४५ तमस्य वर्षस्य अगस्त-मासस्य षष्ठे दिनाङ्के स्थानीयसमयानुसारं प्रातः (८:१५) सपादाष्टवादने अमेरिकासंयुक्तराज्यस्य वायुसेनया 'इलोना गे' इत्याख्यात् बी-२९ विमानात् 'लिटल बॉय' इत्याख्यः अणुविस्फोटकः हिरोशिमा-नगरस्योपरि क्षिप्तः । तेन अणुविस्फोटकेन हिरोशिमा-नगरस्य अस्तित्वम् एव लुप्तम् अभवत् [७] । सः विस्फोटकः निर्धारितात् लक्ष्याङ्कात् २५० मीटर दूरे अपतत् । सः ४३ निमेषेषु नगरे विस्फोटम् अकरोत् । विस्फोटकस्य लक्ष्यं एईओल्-आख्यः सेतुः आसीत्, परन्तु सः विस्फोटकः साक्षात् कस्मिँश्चित् रुग्णालयस्योपरि अपतत् । रुग्णालयभवनस्योपरि साक्षात् पतितः सः विस्फोटकः अलिन्दात् साक्षात् भूमौ प्रविष्टः [८] । अलिन्दात् भूमौ प्रविष्टः सः विस्फोटकः १५० मी. गह्वरं प्रविश्य ६०० मीटरपरिमितः चलितः अभवत् । हिरोशिमा-शान्तिस्मारकं तस्मात् स्थानात् १६० मीटर दूरे स्थितम् अस्ति [८] एतस्मिन् भवने विद्यमानाः नागरिकाः तत्क्षणं कालक्वलीभूताः [९][१०]

संवर्धनम्[सम्पादयतु]

युद्धोत्तरम् तस्य भवनस्य अवशेषाणां विदारणं जायमानम् आसीत् । हिरोशिमा-नगरस्य अध्यक्षत्वेन (मेयर) चितः शिग्हो हमाई (१९०५-१९६८) इत्येषः स्मारकं निर्मातुं धनसङ्ग्रहम् अकरोत् । ततः १९६६ तमे वर्षे हिरोशिमा-नगरपालिकया स्मारकत्वेन एतस्य भवनस्य घोषणा कृत्वा नूतननाम 'गेन्बाकु' इति स्थापितम् । परन्तु धनसङ्ग्रहस्य अधिकावश्यकत्वात् धनसङ्ग्रहः कार्यक्रमः १९६७ तमे वर्षे पूर्णः अभवत् । बहुधा तु सः नगराध्यक्षकः स्वयं वीथीषु गत्वा धनदानं कर्तुं सर्वान् प्रेरयति स्म [२][११] । जर्जरितभवनस्य संरक्षणार्थं १९८९-१९९० मध्ये अत्र लघुनिर्माणकार्यम् अपि अभवत् [२] । तद्भवनं विस्फोटोत्तरं यथा आसीत्, तथैव संरक्षितम् अस्ति । यत्र काचित् अधिका हानिः जाता आसीत्, तस्य पुनर्निर्माणं कृत्वा संरक्षितम् अस्ति । अतः विस्फोटकाले भवनं यथा आसीत्, तथैव सर्वम् अस्ति [१२]

वैश्विकसम्पत्त्वेन शान्तिस्मारकम्[सम्पादयतु]

युनेस्को-संस्थायां विश्वस्य सांस्कृतिकसम्पदः, प्राकृतिकसम्पदः च संरक्षणाय अधिनियमः १९९६ तमस्य वर्षस्य दिसम्बरमासे उत्तीर्णः अभवत् । तस्य अधिनियमस्य अन्तर्गततया एतत् स्थलं वैश्विकसम्पत्त्वेन युनेस्को-सूचिकायां स्थानम् अलभत [२] । मुख्यानां त्रयाणाम् अंशानाम् आधारेण एतत् तस्यां सूचिकायां स्थानम् अलभत ।

  1. . विनाशकशक्तेः (अणुशक्तेः) आघातोत्तरम् अपि अतिष्ठत्
  2. . मानवजातौ जातः प्रप्रथमः अणुप्रहारः
  3. शान्तेः प्रतिनिधिः [१]

चीन-अमेरिका-देशौ एतत् स्मारकं वैश्विकसम्पत्त्वेन अङ्गीकर्तुं विरोधम् अकुरुताम् । चीन-देशस्य तर्कः आसीत् यत्, जपान-देशेन अन्यदेशेषु कृतः प्रहारः गौणः भविष्यति यदि एतस्य वैश्विकसम्पत्त्वेन घोषणा भवति इति । युद्धस्मारकस्य ऐतिहासिकसन्दर्भस्य उपेक्षा भविष्यति इति उक्त्वा अमेरिका-देशीयाः प्रतिनिधयः निर्णयप्रक्रियायाम् अपि भागं न अवहन् ।

चित्राणि[सम्पादयतु]

१८०° अंशे हिरोशिमा-शान्तिस्मारकोद्यानस्य दृश्यम् । चित्रस्य वामभागे स्तूपः द्रष्टुं शक्यते । "T" इत्याकारकस्य विस्फोटकस्य चिह्नं दक्षिणभागे दृष्टुं शक्यते ।

उद्धरणम्[सम्पादयतु]

  1. १.० १.१ १.२ १.३ १.४ UNESCO. "Hiroshima Peace Memorial (Genbaku Dome)". 
  2. २.० २.१ २.२ २.३ २.४ "原爆ドーム [A-Bomb Dome]" (in Japanese). Nihon Daihyakka Zensho (Nipponika). Tokyo: Shogakukan. 2012. OCLC 153301537. http://rekishi.jkn21.com/. Retrieved 2012-09-18. 
  3. Logan, William (2008). Places of Pain and Shame: Dealing with 'Difficult Heritage'. Routledge. 
  4. Hiroshima Peace Museum
  5. "Let's look at the Special Exhibit : Hiroshima on October 5, 1945". Hiroshima Peace Memorial Museum. Retrieved 15 August 2010. 
  6. ६.० ६.१ Van Rhyn, Mark E. "Hiroshima, Bombing of". PBS. Retrieved 29 March 2013. 
  7. Schofield, John and Cocroft, Wayne (eds.) (2009). A Fearsome Heritage: Diverse Legacies of the Cold War. Left Coast Press. 
  8. ८.० ८.१ Ide, Kanako (Winter 2007). "A Symbol of Peace and Peace Education: The Genbaku Dome in Hiroshima". Journal of Aesthetic Education. 4 41: 12–23. http://muse.jhu.edu/journals/jae/summary/v041/41.4ide.html. Retrieved 10 February 2014. 
  9. Hiroshima Prefectural Industrial Promotion Hall Memorial Plaque
  10. Milam, Michael C. (July–August 2010). "Hiroshima and Nagasaki". Humanist (Buffalo, N.Y.: American Humanist Association and the American Ethical Union) 70 (4): 32–35. 
  11. "浜井信三 [Shinzo Hamai]" (in Japanese). Nihon Jinmei Daijiten. Tokyo: Shogakukan. 2012. http://rekishi.jkn21.com/. Retrieved 2012-10-23. 
  12. "Japan". UNESCO. Retrieved 12 June 2012. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]