हीनयानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हीनायानम् इत्यस्मात् पुनर्निर्दिष्टम्)


गौतमबुद्धः

बौद्धधर्मः

बौद्धधर्मः

हीनयानमतानुसारेण संसारः दुःखमयोऽस्ति । दुःखस्य त्रयः प्रकाराः सन्ति- दुःखदुःखता,संस्कारादुःखता एवं विपरिणादुःखता च । शारिरिकैः मानसिकैश्च कारणैः उत्पाद्यमान दुःखं दुःखतासंज्ञकमस्ति । उत्पत्तिशीलस्य विनाशशीलस्य च जगतः वस्तुभिः उत्पाद्यमानं दुःखं संस्कारदुःखता कथ्यते । यैः कारणैः सुखमपि दुःखरूपे परिणतं भवति तैः कारणैः उत्पद्यमानं दुःखं विपरिणदुःखता भवति । प्राणी विविधदुःखेभ्यः कथं मुक्तोभवेत् इति विचार्य बुद्धेन चतुर्ण्णाम् आर्यसत्यानामुपदेशः प्रदत्तः । एषामार्यसत्यानाम् आचारणमेव सांस्कारिकपदार्थानां नश्वरतायाः अनात्मतायाश्च ज्ञानं दुःखनिवृत्तेः सदुपायो वर्तते । एवम् अष्टाङ्गिकमार्गस्य अनुसरणं प्रथम उपायोऽस्ति,सांसारिकपदार्थान् प्रति ह्येताभावो द्वितीय उपायोऽस्ति,आत्मनोऽस्तित्वस्य अस्वीकृतिः तृतीय उपायोऽस्ति । एषाम् त्रयाणाम् उपायानाम् अनुपालनेन त्रिविधदुःखनाम् उन्मूलनं भवति । एतादृश्याम् अवस्थायां पुष्टजीवस्य पुनः बन्धरूपता न जायते । इयमेव अवस्था निर्वाणस्यास्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हीनयानम्&oldid=396053" इत्यस्माद् प्रतिप्राप्तम्