हीरोफिलस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हीरोफिलस् (कालः – क्रि. पू. ३०० तः क्रि. पू. २५०)

अयं हीरोफिलस् (Herophilos) प्रसिद्धः अङ्गरचनाशास्त्रज्ञः । अलेक्साण्ड्रियानगरं यदा ग्रीक्-संस्कृतेः प्रमुखम् आधारभूतं स्थानम् आसीत् तदा तत्र भौतविज्ञानिनः जीवविज्ञानिनः च अत्यद्भुतानि संशोधनानि अकुर्वन् । तत्समये तत्र विद्यमानेषु प्रमुखेषु विज्ञानिषु अयं हीरोफिलस् अपि अन्यतमः । शरीरस्य परीक्षार्थं सार्वजनिकानां पुरतः प्रथमवारम् अङ्गच्छेदं कृतवान् अयं हीरोफिलस् एव । 'शरीरस्य अपेक्षया आत्मा एव प्रमुखम्’ इति वदतः प्लेटो – मतस्य अनुयायिनां दृष्ट्या शरीरस्य छेदनं न अपराधः । परन्तु ईजिप्त् – मूल्निवासिनां दृष्ट्या शरीरस्य छेदनम् अक्षम्यः, अधर्म्यः, अपराधः च । अतः तदानीन्तने काले शरीरस्य छेदनं कृत्वा परीक्षां न कुर्वन्ति स्म ।


अयं हीरोफिलस् मस्तिष्कस्य विषये गभीरम् अध्ययनम् अकरोत् । अनेकान् प्रयोगान् अपि अकरोत् । सः नाडीः संवेदनात्मिकाः नाड्यः, क्रियात्मिकाः नाड्यः च इति द्विधा विभक्तवान् । एषः हीरोफिलस् नेत्रस्य अक्षिपटं, लघु अन्त्रस्य आरम्भिकं भागं च विवृतवान् । अयं हीरोफिलस् स्त्रीजननाङ्गम् अपि परीक्ष्य अण्डाशयं, गर्भाशयं च विवृतवान् अपि । मलिनरक्तनाड्याः शुद्धरक्तनाड्याः च भेदान् अपि सम्यक् परिशील्य विवृतवान् अपि । अयं हीरोफिलस् एव पाश्चात्यजगतः प्रथमः अङ्गविज्ञानी ।

"https://sa.wikipedia.org/w/index.php?title=हीरोफिलस्&oldid=368397" इत्यस्माद् प्रतिप्राप्तम्