सामग्री पर जाएँ

हृदयाघातः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हृदयाघातः कश्चन हृद्रोगेषु अन्यतमः। रक्तप्रसरणे न्यूनता भवति चेत् हृदयस्य मांसखण्डाः क्षीयमाणाः भवन्ति । एतदेव हृदयाघातः इति कथयन्ति । ’करोनरि’ नामकेषु केशिकेषु एकम् केशिकम् पिहितं भवति चेत् हृदयाघातः भविष्यति । कस्मैश्चित् अपि, कदापि वा एषः रोगः आगच्छेत् । कार्ये, विश्रान्तिसमये, प्रयाणे, निद्रायाम्, भाषणसमये, आनन्दे च एषः रोगः आगच्छेत् (अस्य रोगस्य उत्पत्तिः भवेत्) । प्रातःकाले एषः रोगः आगच्छति इति संशोधनेन ज्ञातम् अस्ति ।

हृदयाघातस्य लक्षणानि

[सम्पादयतु]

हृदयाघातस्य स्वरूपं बहुक्रूरं भवति । क्षणाभ्यन्तरे आगत्य जीवने वैपरीत्यमेव जनयति । तादृशः रोगः एषः । हृदयाघातसमये अनुभूयमानानि लक्षणानि एवं सन्ति,

  • हृदयवेदना- हृदयस्य मध्यभागे वेदना आयाति । सा वेदना असहनीया भवति । हृदयभारः भवति अस्मिन् समये ।
  • वामबाहौ, वाम उपपार्श्वे च अतीव वेदना आयाति । कदाचित् हनुभागे, पृष्ठे, वामहस्ते च वेदना आयाति ।
  • स्वेदः अधिकतया आयाति ।
  • अन्यानि लक्षणानि- पादयोः शैत्यं भवति । शिरोभ्रमणं भवति । नेत्रयोः अन्धकारः भवति । अधरौ नीलवर्णौ भवतः । अस्मिन् समये वमनं भवति । नाड्यः दुर्लभाः भवन्ति । श्वासोच्छ्वासे क्लेशः भवति ।

हृदयाघातस्य कारणानि

[सम्पादयतु]

हृदयाघातस्य इदमेव कारणमिति संशोधकाः न निरूपितवन्तः । किन्तु हृदयाघातस्य कानिचन कारणानि उक्तानि सन्ति ।

अनिवार्यकारणानि

[सम्पादयतु]
  • वयः
  • लिङ्गम्
  • वंशे हृदयाघातस्य परम्परा ।

निवारयितुं शक्यानि कारणानि

[सम्पादयतु]
  • धूमपानम्
  • मद्यपानम्
  • मानसिकोद्वेगः
  • अधिकमदयुक्तस्य पदार्थस्य सेवनम् ।
  • देहस्थौल्यम्
  • मधुमेहः
  • आलस्यम्
  • गर्भनिरोधकगुलिकायाः सेवनम् ।

हृदयाघातस्य निवारणोपायाः

[सम्पादयतु]
  • धूमपानं न करणीयम् ।
  • मद्यपानं न करणीयम् ।
  • मिताहारी भवेत् ।
  • मानसिकोद्वेगात् बहिर्भवेत् ।
  • विनालस्यम्, क्रियाशीलश्च भवेत् ।
  • मनोरञ्जनादिनिमित्तं समयः देयः । तेषु भागः ग्राह्यः।
  • मधुमेहादिभ्यः रोगेभ्यः सूक्तचिकित्सा स्वीकर्तव्या ।
  • सस्याहारं सेवनीयम् एवं फलानि भोक्तव्यानि ।
  • मुख्यतया वैद्यस्य सलाहानुसर्तव्यः ।

बाह्यानुबन्धः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=हृदयाघातः&oldid=481154" इत्यस्माद् प्रतिप्राप्तम्