होलिकादहनम्
होलिकादहनम् | |
---|---|
होलिकादहनम्, श्रीराम् चौक्, देहली | |
वर्गः | हिन्दु |
आरम्भः | फल्गुनपूर्णिमा |
दिनाङ्कः | फेब्रवरी-मार्च् |
आचरणानि |
होलिकादहनस्य अनन्तरदिने |
सम्बद्धम् | होलिकापर्व |
होलिकादहनम् इति कश्चन उत्सव: होलिपर्वणः पूर्वस्मिन दिने सायङ्काले आचर्यते । 'होलिका' इति काचित् राक्षसी आसीत् । एषा हिरण्यकशिपोः सहोदरी ! एषा हिरण्यकशिपोः आज्ञाम् अनुसृत्य प्रह्लादम् अग्नौ मारयितुं प्रयत्नम् अकोरत् । किन्तु तदवसरे सा स्वयम् एव मरणं प्राप्नोत् । एतस्य स्मरणाय 'होलिकादहनम्' आचर्यते ।
नेपालदेशे,भारतदेशस्य केषुचित् भागेषु (उतरभारते सर्वत्र, दक्षिणभागे विरलेषु स्ठानेषु) होलिकादहनम् उत्साहेन आचर्यते । युवका: क्रीडामनोभावेन विभिन्नानि लघूनि वस्तूनि होलिकादहनावसरे अग्नो निक्षिपन्ति ।
अस्मिन् उत्सवे यद्यपि विभिन्नाः क्रियाः विद्यन्ते तथापि होलिकादहनम् एव अत्यन्तं प्रमुखः भागः विद्यते । इद आचरणं भक्तेः शक्तिं द्योतयति । हिरण्यकषिपुणा अनेकानि दुश्चरितानि आचरितानि विघ्नाः उपस्थापिताः चेदपि भक्तस्य प्रह्लादस्य भक्तिः श्रद्धा च किञ्चिदपि न्यूना न जाता ।
होलिकादहनोत्सवस्य पूर्वसिद्धताः
[सम्पादयतु]उत्सवस्य पूर्वस्मिन् दिने जनाः काष्ठानि,अन्यानि ज्वालनीयवस्तूनि च सङ्गृह्य उद्यानेषु, क्रीडाङ्गणेषु, देवालयानां समीपे च होलिकादहनार्थम् सज्जीकुर्वन्ति । यथा होलिका अग्नौ प्रह्लादं मारयितुं प्रयत्नम् अकरोत्, तथा जना: चितायाः उपरि एकां पुत्तलिकां स्ठापयन्ति । तत् अपि जवालयन्ति । गृहेषु सर्वे विभिन्नानां वर्णानां चूर्णानि स्थापयन्ति, ऋत्वनुसरेण विभिन्नानि रुचिकराणि भक्ष्याणि पचन्ति ।
होलिकादहनम्
[सम्पादयतु]होलीकोत्सवदिने सूर्यास्तमनात् अनन्तरं होलिकादहनम् आरम्भ्यते । जना: सन्तोषेण गीतानि गायन्ति नृत्यन्ति च । चिताया: परिक्रमणम् अपि कुर्वन्ति । सत्कार्यम् एव जयति इति विश्वसस्य आधारेण जना: चिताया: परिक्रमणं कृत्वा आनन्देन गायन्ति नृत्यन्ति च । अग्रिमदिने वर्णॊत्सवः होलीकोलहलेने आचर्यते ।
होलिकादहनस्य कारणानि
[सम्पादयतु]भारतदेशस्य विभिन्नेषु भागेषु होलिकादहनस्य विभिन्नानि कारणनि श्रूयन्ते । - विष्णुः प्राविशत् इत्यतः होलिका दग्धा जाता - कस्यापि हानिः न करणीयः इति विश्वासवचनस्य आधारेण होलिका ब्रह्मणः कञ्चित् वरं प्राप्तवती आसीत् । तेन प्राप्तं कम्बलं धृत्वा सा यदि अग्नौ उपविशेत् तर्हि अग्निः तां दग्धुं न शक्नोति स्म । हिरण्यकषिपोः आदेशानुसारं होलिका कम्बलं धृत्वा प्रह्लादम् अङ्के उपावेश्य उपविष्टवती आसीत् । तदा विष्णो: आज्ञया वायु: वेगेने होलिकया: कम्बलं प्रह्लादस्य उपरि पातयति । अनुक्षणं होलिकाया: दहनं, प्रह्लादस्य रक्ष्णं च भगवतः विष्णोः सङ्क्ल्पेन भवति ।