होसकोटेप्रदेशस्य अण्डाकारकशिलाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


तुमकूरुमण्डलस्य कोरटगेरेसमीपे होसकोटे नामकः ग्रामः अस्ति । एतस्य उत्तरदिशि ग्रानैट् शैलानाम् आवलिः अस्ति । एतेषां पूर्वदिशि भूमेः समतले नैस् शिला अस्ति । एतयोः द्वयोः मध्ये ताटङ्काकारस्य शिलाप्रदेश: कश्चित् अस्ति । अण्डाकारकस्य अत्रत्यशिलानाम् अन्तः कृष्ण-श्वेतवर्णयोः वर्तुलाकारस्य कोशाः पर्यायरूपेण सन्ति ।

वस्तुतः कृष्णवर्णस्य डयोरैट् शिलायाम् एषा विरला रचना दृश्यते । आम्फिबोल् , प्लेजियोक्लेस् फेल्ड् स्पार् खनिजाः पर्यायरूपेण कृष्ण – श्वेतवर्णयोः कङ्कणे इव एकस्य अन्तः एकम् इव दृश्यते ।

प्रायः रामनगरस्य ग्रानैट् अन्तःस्सरणस्य समये बेसिक्(प्रत्याम्लीय) शिलाखण्डान् जीर्णयित्वा एवम् अभवत् इति ऊहां कृतवन्तः सन्ति ।

एतं वैशिष्ट्यं प्रथमवारं भारतीयभूसर्वेक्षणसंस्थायाः भूविज्ञानी श्री एस्. वि. श्रीकण्ठय्यः इतिवृत्तं कृतवान् अस्ति ।

एतादृशाः रचनाः भारतस्य कतिचन प्रदेशेषु केवलं दृश्यते । हिमाचलप्रदेशः, लडाख् प्रदेशेषु एतादृशानि रचनानि अस्ति । दक्षिणभारते अत्र केवलम् अण्डाकारस्य गोलशिलाः दृश्यन्ते ।