हन्त ते कथयिष्यामि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.१९ हन्त ते कथयिष्यामि.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवान् उवाच -

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

हन्त ते कथयिष्यामि दिव्याः हि आत्मविभूतयः प्राधान्यतः कुरुश्रेष्ठ न अस्ति अन्तः विस्तरस्य मे ॥ १९ ॥

अन्वयः[सम्पादयतु]

कुरुश्रेष्ठ ! हन्त | (या:) आत्मविभूतयः दिव्याः हि (ता:) ते प्राधान्यतः कथयिष्यामि । मे विस्तरस्य अन्तः नास्ति ।

शब्दार्थः[सम्पादयतु]

कुरुश्रेष्ठ = कुरुपुङ्गव !
हन्त = अहो !
दिव्याः हि = दिव्याः
आत्मविभूतयः = स्वस्य ऐश्वर्यविशेषाः
च ते = तुभ्यम्
प्राधान्यतः = मुख्यत्वेन
कथयिष्यामि = वदिष्यामि
मे विस्तरस्य = मम विभूतीनां वैशाल्यस्य
अन्तः = अवधिः
नास्ति = न विद्यते ।

अर्थः[सम्पादयतु]

कुरुपुङ्गव ! अधुना स्वस्य दिव्येषु ऐश्वर्येषु प्राधान्यतः कानिचिदेव कथयिष्यामि । यतः मम विभूतीनाम् अन्तः नास्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हन्त_ते_कथयिष्यामि...&oldid=418889" इत्यस्माद् प्रतिप्राप्तम्