अश्वत्थः सर्ववृक्षाणां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.२६ अश्वत्थः सर्ववृं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

अन्वयः[सम्पादयतु]

सर्ववृक्षाणाम् अश्वत्थः देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलः मुनिः (अस्मि) ।

शब्दार्थः[सम्पादयतु]

सर्ववृक्षाणाम् = सकलतरूणाम्
अश्वत्थः = अश्वत्थवृक्षः
देवर्षीणाम् = सुरमुनीनाम्
नारदः = नारदमहर्षिः
गन्धर्वाणाम् = गन्धर्वाणाम्
चित्ररथः = तन्नामकः प्रसिद्धगन्धर्वः
सिद्धानाम् = जन्मतः ज्ञानादिशालिनाम्
कपिलः मुनिः = कपिलनामधेयः मुनिः ।

अर्थः[सम्पादयतु]

सर्वेषु वृक्षेषु अहम् अश्वत्थः अस्मि । देवमुनिषु अहं नारदः । गन्धर्वेषु चित्ररथः अस्मि । जन्मना एव ज्ञानैश्वर्यादिकं प्राप्तवत्सु सिद्धेषु अहं कपिलमुनिः अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]