उच्चैःश्रवसमश्वानां...
दिखावट
(१०.२७ उच्चैः श्रवसमश्वां.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
- ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तविंशतितमः (२७)श्लोकः ।
पदच्छेदः
[सम्पादयतु]उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥
अन्वयः
[सम्पादयतु]अश्वानाम् अमृतोद्भवम् उच्चैःश्रवसं गजेन्द्राणाम् ऐरावतं नराणां नराधिपं च मां विद्धि ।
शब्दार्थः
[सम्पादयतु]- अश्वानाम् = हयानाम्
- अमृतोद्भवम् = अमृतमथनकालसम्भवम्
- उच्चैःश्रवसम् = तन्नामकम् अश्वम्
- गजेन्द्राणाम् = गजाधिपतीनाम्
- ऐरावतम् = इन्द्रवाहनम्
- नराणाम् = मनुष्याणाम्
- नराधिपं च = राजानम् अपि
- मां विद्धि = मां जानीहि ।
अर्थः
[सम्पादयतु]अमृतस्य हेतोः देवासुरैः यदा समुद्रमथनं कृतं तदा उच्चैःश्रवाः नाम सर्वोत्कृष्टः अश्वः उत्पन्नः । अश्वेषु मां तं जानीहि । गजश्रेेषु इन्द्रवाहनभूतम् ऐरावतं मनुष्येषु राजानं च मां जानीहि ।