अहिंसा समता तुष्टिः...
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
- भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अहिंसा समता तुष्टिः तपः दानं यशः अयशः भवन्ति भावाः भूतानां मत्तः एव पृथग्विधाः ॥ ५ ॥
अन्वयः
[सम्पादयतु]बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावः भयं च अभयम् एव च अहिंसा समता तुष्टिः तपः दानं यशः अयशः पृथग्विधाः भावाः भूतानां मत्तः एव भवन्ति ।
शब्दार्थः
[सम्पादयतु]- बुद्धिः = सूक्ष्मग्राहित्वम्
- ज्ञानम् = वस्तुज्ञानम्
- असम्मोहः = व्याकुलत्वाभावः
- क्षमा = सहनम्
- सत्यम् = यथार्थवचनम्
- दमः = बाह्येन्द्रियनिग्रहः
- शमः = अन्तःकरणनिग्रहः
- सुखम् = आह्लादः
- दुःखम् = सन्तापः
- भवः = उवः
- अभावः = विनाशः
- भयं च = भीतिः च
- अभयम् एव च = भीतिराहित्यम् अपि
- अहिंसा = अपीडनम्
- समता = साम्यम्
- तुष्टिः = सन्तोषः
- तपः = नियमपूर्वकं शरीरपीडनम्
- दानम् = वितरणम्
- यशः = कीर्तिः
- अयशः = अपकीर्तिः
- पृथग्विधाः = एवं नानाप्रकाराः
- भावाः = चित्तवृत्तयः
- भूतानाम् = प्राणिनाम्
- मत्तः एव = ईश्वरात् एव
- भवन्ति = सम्पद्यन्ते ।
अर्थः
[सम्पादयतु]सूक्ष्मग्राहित्वम्, वस्तुज्ञानम्, विवेकः, सहनम्, यथार्थवचनम्, बाह्येन्द्रियनिग्रहः, अन्तःकरणनिग्रहः, आह्लादः, सन्तापः, उवः, विनाशः, भीतिः, भीतिराहित्यम्, अहिंसा, साम्यम्, सन्तोषः, तपः, दानम्, कीर्तिः, अपकीर्तिः - एवं नानाप्रकाराः चित्तवृत्तयः प्राणिनां मत्तः एव सम्पद्यन्ते ।
रामानुजभाष्यम्
[सम्पादयतु]एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनं विरोधिनिरसनादेवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्यं स्वैश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिवृद्धिप्रकारमाह—
बुद्धिर्मनसो निरूपणसामर्थ्यम्, ज्ञानं चिदचिद्वस्तुविशेषविषयं निश्चयम् । असंमोहं पूर्वगृहीताद्रजतादेर्विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिम् । क्षमा मनोविकारहेतौ सत्यप्यविकृतमनस्त्वम् । सत्यं यथादृष्टविषयं भूतहितरूपं वचनम्, तदनुगुणा मनोवृत्तिमिहाभिप्रेता, मनोवृत्तिप्रकरणात। दमो बाह्यकरणानामनर्थविषयेभ्यो नियमनम् । शमोऽन्तम्करणस्य तथा नियमनम् । सुखमात्मानुकूलानुभवम् । दुम्खं प्रतिकूलानुभवम् । भवो भवनम् । अनुकूलानुभवहेतुकं मनसो भवनम् । अभावं प्रतिकूलानुभवहेतुको मनसोऽवसादम् । भयमागामिनो दुम्खस्य हेतुदर्शनजं दुम्खम्, तन्निवृत्तिरभयम् । अहिंसा परदुम्खाहेतुत्वम् । समता आत्मनि सुहृत्सु विपक्षेषु चार्थानर्थयों सममतित्वम् । तुष्टिं सर्वेष्वात्मसु दृष्टोषु तोषस्वभावत्वम् । तपं शास्त्रीयो भोगसंकोचरूपं कायक्लेशम् । दानं स्वकीयभोग्यानां परस्मै प्रतिपादनम् । यशो गुणवत्ताप्रथा, अयशं नैर्गुण्यप्रथा, [कीर्त्यकीर्त्यनुगुणमनोवृत्तिविशेषौ तथा उक्तौ, मनोवृत्तिप्रकरणात्] । तपोदाने च तथा । एवमाद्यां सर्वेषां भूतानां भावां प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्संकल्पायत्ता भवन्ति ॥१०.४।५॥