द्यावापृथिव्योरिदम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(११.२० द्यावापृथिव्योरिदम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


श्लोकः[सम्पादयतु]

गीतोपदेशः
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

द्यावापृथिव्योः इदम् अन्तरं हि व्याप्तं त्वया एकेन दिशः च सर्वाः दृष्ट्वा अद्भुतं रूपम् उग्रं तव इदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥

अन्वयः[सम्पादयतु]

महात्मन् ! द्यावापृथिव्योः इदम् अन्तरं हि त्वया एकेन व्याप्तं सर्वाः दिशः च । तव उग्रम् उतम् इदं रूपं दृष्ट्वा लोकत्रयं प्रव्यथितम् ।

शब्दार्थः[सम्पादयतु]

महात्मन् = महानुभाव !
द्यावापृथिव्योः = भूम्यन्तरिक्षयोः
इदम् = असौ
अन्तरम् = अवकाशः
त्वया = भवता
एकेन = केवलेन
व्याप्तं = परिव्याप्तः
सर्वाः = सकलाः
दिशः च = आशाः अपि (व्याप्ताः)
तव = ते
उग्रम् = क्रूरम्
उतम् = विस्मयकरम्
इदम् = एतत्
रूपम् = स्वरूपम्
दृष्ट्वा = ईक्षित्वा
लोकत्रयम् = भुवनत्रयम्
प्रव्यथितम् = खिन्नम् ।

अर्थः[सम्पादयतु]

महात्मन् ! भूम्यन्तरिक्षयोः मध्ये वर्तमानः सर्वोऽपि अवकाशः भवता एकेन परिव्याप्तः अस्ति । सर्वाः दिशः अपि त्वयैव व्याप्ताः । तव क्रूरं विस्मयजनकं च इदं स्वरूपं दृष्ट्वा भुवनत्रयमपि किं भविष्यतीति चिन्ताकुलम् अस्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]