कस्माच्च ते न नमेरन्...
दिखावट
(११.३७ क्स्माच्च ते न... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
- अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तत्रिंशत्तमः(३७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणः अपि आदिकर्त्रे अनन्त देवेश जगन्निवास त्वम् अक्षरं सत् असत् तत्परं यत् ॥ ३७ ॥
अन्वयः
[सम्पादयतु]महात्मन् ! गरीयसे ब्रह्मणः अपि आदिकर्त्रे ते कस्मात् च न नमेरन् ? अनन्त देवेश जगन्निवास ! त्वं सत् असत् (च) तत्परं यत् अक्षरम् (तदपि) ।
शब्दार्थः
[सम्पादयतु]- महात्मन् = हे महात्मन् !
- ब्रह्मणः अपि = हिरण्यगर्भादपि
- गरीयसे = गुरुतराय
- आदिकर्त्रे = तस्यापि जनकाय
- ते = तुभ्यम्
- कस्मात् च = केन हेतुना
- न नमेरन् = न नमस्कुर्युः ?
- अनन्त = अवधिरहित !
- देवेश = सुराधिप
- जगन्निवास = लोकावास !
- त्वम् = भवान्
- सत् = व्यक्तम् असि
- असत् = अव्यक्तमसि
- तत्परं = ताभ्यामपि श्रेष्ठम्
- यद् अक्षरम् = यत् ब्रह्म (तदपि = तदप्यसि) ।
अर्थः
[सम्पादयतु]हे महात्मन् ! त्वं ब्रह्मणोऽपि जनकः । तादृशं त्वां जनाः किं कारणं न नमस्कुर्वन्ति ? अवश्यं ते नमस्कुर्वन्ति । हे जगन्निकेतन ! त्वं यदिदं व्यक्तं तदसि । यच्च अव्यक्तं तदसि । ताभ्यां परं यदक्षरं ब्रह्म तदप्यसि ।