तस्मात्प्रणम्य प्रणिधाय...
दिखावट
(११.४४ तस्मात्प्रणम्य... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
- पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वाम् अहम् ईशम् ईड्यम् पितेव पुत्रस्य सखा इव सख्युः प्रियः प्रियायाः अर्हसि देव सोढुम् ॥ ४४ ॥
अन्वयः
[सम्पादयतु]देव तस्मात् प्रणम्य कायं प्रणिधाय ईड्यम् ईशं त्वाम् अहं प्रसादये । पुत्रस्य पिता इव, सख्युः सखा इव, प्रियायाः प्रियः इव सोढुम् अर्हसि ।
शब्दार्थः
[सम्पादयतु]- देव = प्रभो !
- तस्मात् = हेतोः
- प्रणम्य = नमस्कृत्य
- कायम् = शरीरम्
- प्रणिधाय = नम्रं कृत्वा
- ईड्यम् = स्तुत्यम्
- ईशम् = प्रभुम्
- त्वां प्रसादये = त्वां प्रसन्नं करोमि
- पुत्रस्य = तनयस्य
- पिता इव = जनकः इव
- सख्युः = सुहृदः
- सखा इव = सुहृत् इव
- प्रियायाः = प्रेयस्याः
- प्रियः = प्रियकरः इव
- सोढुम् = क्षन्तुम्
- अर्हसि = योग्यः असि ।
अर्थः
[सम्पादयतु]प्रभो ! तस्मात् नमस्कृत्य शरीरं नम्रं कृत्वा स्तुत्यं प्रभुं त्वाम् अहं प्रसादयामि । पुत्रस्य अपराधम् पिता इव, सुहृदः अपराधं सुहृत् इव, प्रेयस्याः अपराधं प्रियः इव, मम अपराधं क्षन्तुम् अर्हसि ।