मया प्रसन्नेन...
दिखावट
(११.४७ मया प्रसन्नेन... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
श्रीभगवानुवाच -
- मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
- तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तचत्वारिंशत्तमः(४७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मया प्रसन्नेन तव अर्जुनेदं रूपं परं दर्शितम् आत्मयोगात् तेजोमयं विश्वम् अनन्तम् आद्यं यत् मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥
अन्वयः
[सम्पादयतु]अर्जुन ! प्रसन्नेन मया आत्मयोगात् तेजोमयं विश्वम् अनन्तम् आद्यं यत् मे त्वदन्येन न दृष्टपूर्वम् इदं परं रूपं तव दर्शितम् ।
शब्दार्थः
[सम्पादयतु]- अर्जुन = हे अर्जुन !
- प्रसन्नेन = प्रशान्तेन
- आत्मयोगात् = स्वसामर्थ्यात्
- तेजोमयम् =कान्तिमयम्
- विश्वम् = समस्तम्
- अनन्तम् = अन्तशून्यम्
- आद्यम् = प्रथमम्
- यत् मे रूपम् = यत् मम रूपम्
- त्वदन्येन = भवदितरेण
- न दृष्टपूर्वम् = पूर्वम् अनवलोकितम्
- इदम् = तादृशम् एतत्
- परम् = उत्कृष्टम्
- रूपम् = स्वरूपम्
- तव = ते
- दर्शितम् = प्रदर्शितम् ।
अर्थः
[सम्पादयतु]हे अर्जुन ! अनुग्रहबुद्धिना मया स्वसामर्थ्यात् कान्तिमयं समस्तम् अन्तशून्यं प्रथमम् एतत् उत्कृष्टं स्वरूपं ते प्रदर्शितम् । मम एतत् रूपं भवदितरेण न कदापि पूर्वं दृष्टम् ।