सुदुर्दर्शमिदं रूपं...
दिखावट
(११.५२ सुदुर्दर्शमिदं रुपं... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
श्रीभगवानुवाच -
- सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
- देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्विपञ्चाशत्तमः(५२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यत् मम देवाः अपि अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
अन्वयः
[सम्पादयतु]सुदुर्दर्शं यत् इदं मम रूपं दृष्टवान् असि अस्य रूपस्य देवाः अपि नित्यं दर्शनकाङ्क्षिणः ।
शब्दार्थः
[सम्पादयतु]- सुदुर्दर्शम् = दुरवलोकम्
- मम यत् इदम् = मे यत् एतत्
- रूपम् = स्वरूपम्
- दृष्टवान् असि = अवलोकितवान् असि
- अस्य = एतस्य
- रूपस्य = आकारस्य
- देवाः अपि = सुराः अपि
- नित्यम् = सततम्
- दर्शनकाङ्क्षिणः = ईक्षणासक्ताः ।
अर्थः
[सम्पादयतु]मम यद् रूपम् अधुना त्वं दृष्टवान् अस्ति एतत् अतीव दुरवलोकम् । मदीयम् एतत् रूपं द्र्ष्टुं देवाः अपि सर्वदा आकाङ्क्षिणः भवन्ति ।