तत्क्षेत्रं यच्च यादृक्च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१३.०३ तत्क्षेत्रं यच्च यादृक्.. . इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तत् क्षेत्रं यत् च यादृक् च यद्विकारि यतः च यत् स च यः यत् प्रभावः च तत् समासेन मे शृणु ॥ ३ ॥

अन्वयः[सम्पादयतु]

तत् क्षेत्रं यत् च यादृक् च यद्विकारि यतः च । सः च यः यत्प्रभावः च तत् समासेन मे शृणु ।

शब्दार्थः[सम्पादयतु]

तत् क्षेत्रम् = तत् शरीरम्
यत् = यत्स्वरूपम्
यादृक् च = यद्धर्मविशिष्टं च
यद्विकारि = यैः विकारैः युक्तम्
यतश्च = यादृशात् हेतोः जायते
सः च = सः क्षेत्रज्ञः
यः = यत्स्वरूपः
यत्प्रभावः = यादृश - प्रभावविशिष्टः ।

अर्थः[सम्पादयतु]

क्षेत्रस्य किं स्वरूपम् ? कीदृशाश्च धर्माः तत्र सन्ति ? विकारकारणीभूताः अंशाः के ? कस्मात् इदं जायते तथा अस्य क्षेत्रज्ञस्य किं स्वरूपम् ? कीदृशाश्च धर्माः तस्मिन् सन्ति ? तदिदं सर्वमपि संक्षेपेण कथयामि, शृणु ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]