ऋषिभिर्बहुधा गीतं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१३.०४ ऋषिभिर्बहुधा गीतं. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ऋषिभिः बहुधा गीतं छन्दोभिः विविधैः पृथक् ब्रह्मसूत्रपदैः च एव हेतुमद्भिः विनिश्चितैः ॥ ४ ॥

अन्वयः[सम्पादयतु]

(तदिदम्) विविधैः छन्दोभिः ऋषिभिः हेतुमद्भिः विनिश्चितैः ब्रह्मसूत्रपदैश्च बहुधा पृथक् गीतम् ।

शब्दार्थः[सम्पादयतु]

(तदिदं) विविधैः = नानाविधैः
छन्दोभिः = वेदैः
ऋषिभिः = वसिादिभिः मुनिभिः
हेतुमद्भिः = युक्तियुक्तैः
ब्रह्मसूत्रपदैश्च = उपनिषद्वाक्यैश्च
बहुधा = ध्यानधारणादिविषयत्वेन
पृथक् = पार्थक्येन
गीतम् = प्रतिपादितम् ।

अर्थः[सम्पादयतु]

सोऽयं क्षेत्रसम्बन्धी क्षेत्रज्ञसम्बन्धी च विषयः यद्यपि वसिष्ठादिभिः ऋषिभिः, नित्यनैमित्तिककाम्यकर्म-प्रतिपादकैः वेदैः, युक्त्युपेतैः उपक्रमोपसंहारपर्यालोचनेन एकार्थकत्वेन निर्णीतैः ब्रह्मसूत्रैः, उपनिषद्वाक्यैः च ध्यानधारणादिविषयत्वेन पृथक् पृथक् एव निरूपितः, तथापि संक्षेपेण कथयामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऋषिभिर्बहुधा_गीतं...&oldid=418496" इत्यस्माद् प्रतिप्राप्तम्