अध्यात्मज्ञाननित्यत्वं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१३.११ अध्यात्मज्ञाननित्यं. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतत् ज्ञानम् इति प्रोक्तम् अज्ञानं यत् अतः अन्यथा ॥ ११ ॥

अन्वयः[सम्पादयतु]

अमानित्वम् , अदम्भित्वम् , अहिंसा , क्षान्तिः , आर्जवम् , आचार्योपासनम् , शौचम् , स्थैर्यम् , आत्मविनिग्रहः , इन्द्रियार्थेषु वैराग्यम् , अनहङ्कारः एव च , जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् , असक्तिः , पुत्रदारगृहादिषु अनभिष्वङ्गः , इष्टानिष्टोपपत्तिषु नित्यं समचित्तत्वं च , मयि च अनन्ययोगेन अव्यभिचारिणी भक्तिः च , विविक्तदेशसेवित्वम् , जनसंसदि अरतिः , अध्यात्मज्ञाननित्यत्वम् , तत्त्वज्ञानार्थदर्शनम् एतत् ज्ञानम् इति प्रोक्तम् । अतः अन्यथा यत् तत् अज्ञानम् ।

शब्दार्थः[सम्पादयतु]

अमानित्वम् = आत्मश्लाघाराहित्यम्
अदम्भित्वम् = दम्भाभावः
अहिंसा = अपीडनम्
क्षान्तिः = सहनम्
आर्जवम् = अवक्रत्वम्
आचार्योपासनम् = गुरुसेवा ।
इन्द्रियार्थेषु = इन्द्रियविषयेषु
वैराग्यम् = अप्रीतिः
अनहङ्कारः = अभिमानशून्यत्वम्
असक्तिः = अनासक्तिः
जन्ममृत्युजराव्याधिदोषानुदर्शनम् = जननमरणवृद्धत्वरोगदुःखेषु दोषावलोकनम् ।
पुत्रदारगृहादिषु = तनयभार्यानिवासादिषु
अनभिष्वङ्गः = अनभिनिवेशः
इष्टानिष्टोपपत्तिषु = अभीष्ट - द्विष्टवस्तुप्राप्तिषु
नित्यम् = सदा
समचित्तत्वम् = समानमनस्कत्वम् ।
मयि = परमात्मनि
अनन्ययोगेन = एकाग्रचित्तेन
अव्यभिचारिणी = अनपायिनी
जनसंसदि = जनसमवाये
विविक्तदेशसेवित्वम् = एकान्तदेशसेवनम्
अरतिः = अप्रीतिः ।
अध्यात्मज्ञाननित्यत्वम् = सर्वदा आत्मविषयकं चिन्तनम्
ज्ञानम् = ज्ञानसाधनम्
तत्त्वज्ञानार्थदर्शनम् = सत्यज्ञानफलविचारणम्
प्रोक्तम् = कथितम्
अन्यथा = विपर्ययेण ।

अर्थः[सम्पादयतु]

आत्मश्लाघाराहित्यम्, दम्भाभावः, अपीडनम्, क्षमा, अवक्रत्वम्, गुरुशुश्रूषा, शुद्धिः, धृतिः,शरीरेन्द्रियनिग्रहः, इन्द्रियविषयेषु अप्रीतिः, अहारशून्यत्वम्, जननमरणजरारोगदु:खेषु दोषावलोकनम्, अनासक्तिः, तनयभार्यानिवासादिषु अनभिनिवेशः, अभीष्टानिष्टवस्तुप्राप्तिषु सदा समानमनस्कत्वम् , परमात्मनि एकाग्रचित्तेन अनपायिनी भक्तिः, एकान्तप्रदेशसेवा, जनसमवाये अप्रीतिः, सर्वदा आत्मविषयस्य अनुसन्धानम्, तत्त्वज्ञानफलस्य मोक्षस्य प्राप्यत्वेन विचारणम् - एतत् ज्ञानसाधनम् इति कथितम् । अस्मात् अन्यत् यदस्ति तद् ज्ञानसाधनं न इति प्रोक्तम् ।

श्लोकविशेषः[सम्पादयतु]

ज्ञानस्य लक्षणम् श्लोकपञ्चकेन मिलित्वा अत्र दत्तं वर्तते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]