अनादित्वान्निर्गुणत्वात्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१३.३१ अनादित्वात् . इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकत्रिंशत्तमः(३१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अनादित्वात् निर्गुणत्वात् परमात्मा अयम् अव्ययः शरीरस्थः अपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! अयम् अव्ययः परमात्मा शरीरस्थः अपि अनादित्वात् निर्गुणत्वात् न करोति न लिप्यते ।

शब्दार्थः[सम्पादयतु]

अव्ययः = नाशरहितः
अनादित्वात् = अमूलत्वात्
निर्गुणत्वात् = गुणराहित्यात्
शरीरस्थः = क्षेत्रस्थः
न करोति = न आचरति
न लिप्यते = लिप्तो न भवति ।

अर्थः[सम्पादयतु]

अर्जुन ! एषः अविनाशी परमात्मा शरीरे वर्तमानः प्रकृतिसम्बन्धात् कर्म कुर्वन्निव भाति,कर्मफलानि च अनुभवन्निव । किन्तु अयम् अनादिः निर्गणश्च इति हेतोः न तस्मिन् कर्मकर्तृत्वं सम्भवति, नापि कर्मफलभोक्तृत्वम् । तत् केवलम् अस्य सन्निधानात् प्रकृतौ एव ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]