यथा सर्वगतं सौक्ष्म्याद्...
पठन सेटिंग्स
(१३.३२ यथा सर्वगतं. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
- सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य द्वात्रिंशत्तमः(३२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यथा सर्वगतं सौक्ष्म्यात् आकाशं न उपलिप्यते सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ ३२ ॥
अन्वयः
[सम्पादयतु]यथा सर्वगतम् आकाशं सौक्ष्म्यात् न उपलिप्यते तथा सर्वत्र देहे अवस्थितः आत्मा न उपलिप्यते ।
शब्दार्थः
[सम्पादयतु]- सर्वगतम् = सर्वव्यापि
- सौक्ष्म्यात् = असम्बद्धत्वात्
- सर्वत्र = सर्वतः
- अवस्थितः = विद्यमानः ।
अर्थः
[सम्पादयतु]यथा आकाशः पादिषु पुष्पादिषु च वर्तमानः असत्वात् न तद्गतेन दोषेण गुणेन वा सम्बध्यते तथा आत्मा अपि प्रकृष्टे निकृष्टे वा शरीरे वर्तमानः न तद्गतेन दोषेण गुणेन वा सम्बध्यते ।
सम्बद्धसम्पर्कतन्तुः
[सम्पादयतु]