अहं वैश्वानरो भूत्वा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१५.१४ अहं वैश्वानरो…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अहं वैश्वानरः भूत्वा प्राणिनां देहम् आश्रितः प्राणापानसमायुक्तः पचामि अन्नं चतुर्विधम् ॥ १४ ॥

अन्वयः[सम्पादयतु]

अहं वैश्वानरः भूत्वा प्राणिनां देहम् आश्रितः प्राणापानसमायुक्तः चतुर्विधम् अन्नं पचामि ।

शब्दार्थः[सम्पादयतु]

वैश्वानरः = जठराग्निः
प्राणिनाम् = प्राणवताम्
आश्रितः = प्राप्तः
प्राणापानसमायुक्तः = प्राणापानवायुसंयुक्तः
चतुर्विधम् = चतुष्प्रकारम्
पचामि = पक्वं करोमि ।

अर्थः[सम्पादयतु]

चेतनाः यदन्नं खादन्ति तत् भक्ष्यं भोज्यं लेह्यं चोष्यं चेति चतुर्विधं वर्तते । तत्र अपूपादि भक्ष्यम्, पायसादि भोज्यम्, गुडादि लेह्यम्, इक्षुदण्डादि च चोष्यमिति विवेकः । चेतनानाम् इदं चतुर्विधमपि अन्नम् अहं जठराग्निः भूत्वा प्राणवायुम् अपानवायुं च अवलम्ब्य सम्यक् जीर्णीकरोमि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]