द्वाविमौ पुरुषौ लोके...
(१५.१६ द्वाविमौ पुरुषौ…. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
- क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य षोडशः(१६) श्लोकः ।
पदच्छेदः[सम्पादयतु]
द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १६ ॥
अन्वयः[सम्पादयतु]
लोके क्षरः च अक्षरः एव च (इति) इमौ पुरुषौ द्वौ । सर्वाणि भूतानि क्षरः कूटस्थः अक्षरः उच्यते ।
शब्दार्थः[सम्पादयतु]
- क्षरः = विनाशी
- अक्षरः = अविनाशी
- भूतानि = विकारजातानि
- कूटस्थः = शिलाराशिः इव स्थितः ।
अर्थः[सम्पादयतु]
अत्र लोके क्षरः अक्षरः चेति द्वौ पुरुषौ स्तः । तत्र क्षरः पुरुषो नाम महदादिः भूतान्तः सर्वोऽपि कार्यरूपः राशिः । स च विनाशी । अक्षरः मायाशब्देन या व्यवह्रियते सा प्रकृतिः । अयं निर्विकारत्वेन स्थितः कारणभागः ।